This page has been fully proofread once and needs a second look.

४४६
 
काव्यमाला ।
 
मृगेन्द्रशावा इव कंदरोदरात्करीन्द्रकुम्भादिव मौक्तिकोत्कराः ।

विनिःसरन्तः कवितुर्मुखादमी मनोज्ञतां बिभ्रति कस्य न स्तवाः ॥१४॥
 

 
यथा कंदरोदराद्विनिःसरन्तो मृगेन्द्रशावाः सिंहशावाः कस्य न मनोज्ञतां बिभ्रति ।

तथा करीन्द्रस्य गजेन्द्रस्य कुम्भात्कवाटाभिः ग्निःसरन्तो यथा मौक्तिकानामुत्कराः समूहाः

कस्य न मनोज्ञतां बिभ्रति । तथा कवितुः । ममेत्यर्थात् । मुखाद्विनिःसरन्तोऽमी स्तवा

अष्टात्रिंशत् कस्य न सचेतनस्य मनोज्ञतां मनोहरत्वं बिभ्रति । अपि तु सर्वस्येत्यर्थः ॥

 
मरालमाला सरसीव निर्मले कुचस्थले हारलतेव सुभ्रुवाम् ।
 

इयं भवत्वाभरणं महेश्वरस्तवावली वक्त्रसरोरुहे सताम् ॥ १५ ॥
 

 
यथा निर्मले स्वच्छे सरसि । मानसे इत्यौचित्यात् । मानससरसि मरालमाला हंसपकिङ्क्तिरा-

भरणं भवति । यथा सुभ्रुवां मृगदृशां कुचस्थले हारलता आभरणं भवति तथेयं मत्कृता

महेश्वरस्तावली सतां विदुषां वदनकमले आभरणं भवतु ॥
 

 
इमां घनश्रेणिमिवोन्मुखः शिखी चकोरकः कार्तिकचन्द्रिकामिव ।

रथाङ्गनामा तरणेरिव त्विषं स्तवावलीं वीक्ष्य न कः प्रमोदते ॥ १६ ॥
 

 
यथा उन्मुखस्तीयवितोयबिन्दुलाभायोर्ध्वमुखः शिखी मयूरो घनावलीं वर्षाकालिकमेघश्रेणि
णिं
वीक्ष्य यथा प्रकर्षेण मोदते । यथा चकोरकञ्श्चकोरशिशुः कार्तिकज्योत्स्नांत्रां वीक्ष्य प्रमोदते
तथा
यथा रथाङ्गनामा चक्रावाकस्तरणेः सूर्यस्य त्विषं प्रभां प्रातःकाले वीक्ष्य प्रमोदते तथा

इमां मत्कृतां स्तवावलीं वीक्ष्य को न सचेतनः प्रमोदते ॥
 

 
मधुव्रतः सौमनसीमिव स्रजं सितच्छदः पङ्कजकर्णिकामिव ।
 

पिको विकोषामिव चूतमञ्जरीमिमां न कश्चर्वयति स्तवावलीम् ॥ १७ ॥

 
यथा मधुव्रतो भृङ्गः सौमनसीं स्रजं पुष्पमालां चर्वयति । यथा सितच्छदो हंसः पद्म-

कर्णिकां चर्वयति । यथा पिकः कोकिलो विकोषां प्रफुल्लां चूतमञ्जरीं चर्वयति तथा इमां

स्तवावलीं को न चर्वयत्यास्वादयति ॥
 

 
मनस्विनीनामिव साचि वीक्षितं स्तनंधयानामिव मुग्धजल्पितम् ।

अवश्यमासां मधु सूक्तिवीरुधां मनीषिणां मानसमार्द्रयिष्यति ॥ १८ ॥

 
यथा मनस्विनीनां मानिनीनां साचि तिर्यग्वीक्षितं कामिनां मानसमायति । यथा
र्द्रयति । यथा
च स्तनंधयानां बालानां मुग्धजल्पितमप्रगल्भं वचो जनस्य मानसमार्द्रयति । तथैवासां

मदीयानां सूक्तिवीरुधां सूक्तयः प्रौढोक्तय एव वीरुधो लतास्तासां मधु रसायनं मनी-

षिणां सहृदयानां मानसं चेतोऽवश्यमार्द्रयिष्यत्यार्द्रीकरिष्यति ॥
 

 
इयं मधुश्रीरिव केलिकाननं सरोवरं प्रावृडिवातपक्षतम् ।

स्तवावली काव्यकुतूहलं सतामकालजीर्णं तरुणीकरिष्यति ॥ १९ ॥
 
Digitized by Google