This page has not been fully proofread.

४४६
 
काव्यमाला ।
 
मृगेन्द्रशावा इव कंदरोदरात्करीन्द्रकुम्भादिव मौक्तिकोत्कराः ।
विनिःसरन्तः कवितुर्मुखादमी मनोज्ञतां बिभ्रति कस्य न स्तवाः ॥१४॥
 
यथा कंदरोदराद्विनिःसरन्तो मृगेन्द्रशावाः सिंहशावाः कस्य न मनोज्ञतां बिभ्रति ।
तथा करीन्द्रस्य गजेन्द्रस्य कुम्भात्कवाटाभिः सरन्तो यथा मौक्तिकानामुत्कराः समूहाः
कस्य न मनोज्ञतां बिभ्रति । तथा कवितुः । ममेत्यर्थात् । मुखाद्विनिःसरन्तोऽमी स्तवा
अष्टात्रिंशत् कस्य न सचेतनस्य मनोज्ञतां मनोहरत्वं बिभ्रति । अपि तु सर्वस्येत्यर्थः ॥
मरालमाला सरसीव निर्मले कुचस्थले हारलतेव सुभ्रुवाम् ।
 
इयं भवत्वाभरणं महेश्वरस्तवावली वक्रसरोरुहे सताम् ॥ १५ ॥
 
यथा निर्मले स्वच्छे सरसि । मानसे इत्यौचित्यात् । मानससरसि मरालमाला हंसपकिरा-
भरणं भवति । यथा सुभ्रुवां मृगदृशां कुचस्थले हारलता आभरणं भवति तथेयं मत्कृता
महेश्वरस्तावली सतां विदुषां वदनकमले आभरणं भवतु ॥
 
इमां घनश्रेणिमिवोन्मुखः शिखी चकोरकः कार्तिकचन्द्रिकामिव ।
रथाङ्गनामा तरणेरिव त्विषं स्तवावलीं वीक्ष्य न कः प्रमोदते ॥ १६ ॥
 
यथा उन्मुखस्तीयविन्दुलाभायोर्ध्वमुखः शिखी मयूरो घनावलीं वर्षाकालिकमेघश्रेणि
वीक्ष्य यथा प्रकर्षेण मोदते । यथा चकोरकञ्चकोरशिशुः कार्तिकज्योत्स्नां वीक्ष्य प्रमोदते ।
यथा रथाङ्गनामा चक्रावाकस्तरणेः सूर्यस्य विषं प्रभां प्रातःकाले वीक्ष्य प्रमोदते तथा
इमां मत्कृतां स्तवावलीं वीक्ष्य को न सचेतनः प्रमोदते ॥
 
मधुव्रतः सौमनसीमिव स्रजं सितच्छदः पङ्कजकर्णिकामिव ।
 
पिको विकोषामिव चूतमञ्जरीमिमां न कश्चर्वयति स्तवावलीम् ॥ १७ ॥
यथा मधुव्रतो भृङ्गः सौमनसीं स्रजं पुष्पमालां चर्वयति । यथा सितच्छदो हंसः पद्म-
कर्णिकां चर्वयति । यथा पिकः कोकिलो विकोषां प्रफुल्लां चूतमअरीं चर्वयति तथा इमां
स्तवावलीं को न चर्वयत्यास्वादयति ॥
 
मनस्विनीनामिव साचि वीक्षितं स्तनंधयानामिव मुग्धजल्पितम् ।
अवश्यमासां मधु सूक्तिवीरुधां मनीषिणां मानसमायिष्यति ॥ १८ ॥
यथा मनस्विनीनां मानिनीनां साचि तिर्यग्वीक्षितं कामिनां मानसमायति । यथा
च स्तनंधयानां बालानां मुग्धजल्पितमप्रगल्भं वचो जनस्य मानसमार्द्रयति । तथैवासां
मदीयानां सूक्तिवीरुधां सूक्तयः प्रौढोक्तय एव वीरुधो लतास्तासां मधु रसायनं मनी-
षिणां सहृदयानां मानसं चेतोऽवश्यमार्द्रयिष्यत्याकरिष्यति ॥
 
इयं मधुश्रीरिव केलिकाननं सरोवरं प्रावृडिवातपक्षतम् ।
स्तवावली काव्यकुतूहलं सतामकालजीर्ण तरुणीकरिष्यति ॥ १९ ॥
 
Digitized by Google