This page has been fully proofread once and needs a second look.

३८ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
४४५
 
-
 
रसोऽत्र प्रक्रान्तत्वाच्छान्तरतः । रसो गर्नेभे यस्य स तादृशो निर्भरः पूर्णो ध्वनिरुत्तमका-

व्यापरपर्यायो यस्यां सा । 'इदमुत्तममतिशयिनि व्यङ्गये वाच्याद्ध्वनिर्बुधैः कथितः' इति

श्रीकाव्यप्रकाशकारः । किंभूता स्तवावलिः । अनघा अविद्यमानान्यघानि श्रुतिकटुत्वा-

दयः शब्ददोषा अपुष्टत्वादयोऽर्थदोषाश्च यस्यां सा तादृशी । किंभूतं नीलगलं शंभुम् । पृ.

थुर्ब्रह्माद्यतिरिक्तः प्रभावः प्रभुत्वं यस्य स तादृशं पृथुप्रभावम् । तथा शशिखण्डेन चन्द्र-

कलया मण्डितं शोभितम् । अथ च रसस्य वारिणो गर्भस्तेन निर्भरः पूर्णो ध्वमिर्ग-

र्
जितं यस्याः सा रसगर्भनिर्भरध्वनिर्घनानां मेघानामावलिर्नीलगलं नीलकण्ठं मयूरं

प्रहर्षिणं करोति । किंभूता मेघपङ्क्तिः । अनघा अविद्यमानमघमवप्ग्रहोत्थतुच्छत्वदोषो यस्याः

सा । नीलगलं मयूरं किंभूतम् । पृथुप्रभावंशशिखण्डमण्डितम् पृथुर्महान् प्रभाणां कान्तीनां

वंश: समूहो येषु तानि शिखण्डानि चन्द्रका यस्य स तादृशम् (तैर्मण्डितम्) ।
 

ननु ब्रह्मादीनामपि परमेश्वरप्रभावमविदुषां स्तुतिरसदृश्येव भवतो वराकस्य का क

थेत्याशङ्क्याह-

 
यदि ह्ययोग्याश्चरणान्तिके वयं तथापि नः प्राङ्गणसीमसेविनाम् ।

चमत्करिष्यन्ति गिरः प्रभोरिमा जनङ्गमानामिव गीतरीतयः ॥ ११ ॥

 
हि निश्चये । प्रभोर्जगदीशस्य चरणान्तिके पादपद्मोपकण्ठे इमाः स्तुतीः श्रावयितुं यदि

वयमयोग्यास्तथापि प्रभोः प्राङ्गणसीमसेविनां यामिकानां गणानामेव नो गिरः स्तुतिरूपा-

श्
चमत्करिष्यन्ति । का इव । गीतरीतयो हालाकरीतय इव । यथा हालाकरीतयो जनंगमानां

बाह्यजनानां चमत्करिष्यन्ति तथेत्यर्थः ॥
 

पुनरपि कृतार्थमात्मानं श्रीशंभुस्तुत्या मन्यमान आइ-

 
परोपकारैरिव राजसेवनं दरिद्रगार्हस्थ्यमिवार्थितर्पणैः ।
 
इ॑

[^१]इ
दं बहुक्लेशमपीश्वरस्तवैरवैमि वर्ष्म स्पृहणीयमात्मनः ॥ १२ ॥
 

 
यथा सेवकस्य बहुक्लेशमपि राजसेवनं परोपकारैः परेषामुपकारविधिभिः स्पृहणीयं भ

वति । यथा च दरिद्रस्य निर्धनस्य गार्हस्थ्यं गृहस्थकर्म बहुक्लेशमप्यर्थिनामभ्यागतानाम-

तिथीनां तर्पणैस्तृप्तीकरणैः स्पृहणीयं भवति तथा बहवः क्लेशाः संसारोत्था यस्य तत्तादृश-

मप्यात्मन इदं वर्ष्म शरीरमीश्वरस्तवैः परमेश्वरस्तवैः स्पृहणीयं काङ्क्षणीयमवैमि जाने ॥
 

 
सहस्पत्रैरिव पल्वलोदकं शिरः फणीन्द्रस्य मणिब्व्रजैरिव

सदोषमप्येतदवैमि मानुषं मनोरमं जन्म महेश्वरस्तवैः ॥ १३ ॥
 

 
सदोषमपि कलुषमपि पल्वलजलं तटाकोदकं सहस्रपत्रैः कमलैर्मनोरमं यथा भवति ।

'सहस्रपत्रं कमलं' इत्यमरः । यथा सदोषमप्यविरलगरलापूर्णमपि फणीन्द्रस्य शिरोमणि
-
व्रजै रत्नव्रातैर्मनोरमं भवति । तथा सहदोषैः संसारोत्यैथैर्वर्तते यत्तादृशमप्येतन्मानुषं मानुष-

स्येदं मनुष्यजन्म महेश्वरस्य स्तवैर्मनोरममभिलषणीयमहं जाने ॥
 

 
[^
]. 'वपुर्बहुक्लेशमपीदमीश्वरस्तवैरवैमि स्पृहणीयमात्मनः' क.
 
Digitized by Google