This page has not been fully proofread.

३८ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
४४५
 
-
 
रसोऽत्र प्रक्रान्तत्वाच्छान्तरतः । रसो गर्ने यस्य स ताडशो निर्भरः पूर्णो ध्वनिरुत्तमका-
व्यापरपर्यायो यस्यां सा । 'इदमुत्तममतिशयिनि व्यङ्गये वाच्यामनिर्बुधैः कथितः' इति
श्रीकाव्यप्रकाशकारः । किंभूता स्तवावलिः । अनघा अविद्यमानान्यघानि श्रुतिकटुत्वा-
दयः शब्ददोषा अपुष्टत्वादयोऽर्थदोषाश्च यस्यां सा तादृशी । किंभूतं नीलगलं शंभुम् । पृ.
थुर्ब्रह्माद्यतिरिक्तः प्रभावः प्रभुत्वं यस्य स तादृशं पृथुप्रभावम् । तथा शशिखण्डेन चन्द्र-
कलया मण्डितं शोभितम् । अथ च रसस्य वारिणो गर्भस्तेन निर्भरः पूर्णो ध्वमिर्ग-
जितं यस्याः सा रसगर्भनिर्भरध्वनिर्घनानां मेघानामावलिर्नीलगलं नीलकण्ठं मयूरं
प्रहर्षिणं करोति । किंभूता मेघपतिः । अनघा अविद्यमानमघमवप्रहोत्थतुच्छत्वदोषो यस्याः
सा । नीलगलं मयूरं किंभूतम् । पृथुप्रभावंशशिखण्डमण्डितम् पृथुर्महान् प्रभाणां कान्तीनां
वंश: समूहो येषु तानि शिखण्डानि चन्द्रका यस्य स तादृशम् (तैर्मण्डितम्) ।
 
ननु ब्रह्मादीनामपि परमेश्वरप्रभावमविदुषां स्तुतिरसदृश्येव भवतो वराकस्य का क
थेत्याशङ्कयाह-
यदि ह्ययोग्याश्चरणान्तिके वयं तथापि नः प्राङ्गणसीमसेविनाम् ।
चमत्करिष्यन्ति गिरः प्रभोरिमा जनङ्गमानामिव गीतरीतयः ॥ ११ ॥
हि निश्चये । प्रभोर्जगदीशस्य चरणान्तिके पादपद्मोपकण्ठे इमाः स्तुतीः श्रावयितुं यदि
वयमयोग्यास्तथापि प्रभोः प्राङ्गणसीमसेविनां यामिकानां गणानामेव नो गिरः स्तुतिरूपा-
चमत्करिष्यन्ति । का इव । गीतरीतयो हालाकरीतय इव । यथा हालाकरीतयो जनंगमानां
बाह्यजनानां चमत्करिष्यन्ति तथेत्यर्थः ॥
 
पुनरपि कृतार्थमात्मानं श्रीशंभुस्तुत्या मन्यमान आइ-
परोपकारैरिव राजसेवनं दरिद्रगार्हस्थ्यमिवार्थितर्पणैः ।
 
इ॑दं बहुक्लेशमपीश्वरस्तवैरवैमि वर्ष्म स्पृहणीयमात्मनः ॥ १२ ॥
 
यथा सेवकस्य बहुक्लेशमपि राजसेवनं परोपकारैः परेषामुपकारविधिभिः स्पृहणीयं भ
वति । यथा च दरिद्रस्य निर्धनस्य गार्हस्थ्यं गृहस्थकर्म बहुक्लेशमप्यर्थिनामभ्यागतानाम-
तिथीनां तर्पणैस्तृप्तीकरणैः स्पृहणीयं भवति तथा बहवः क्लेशाः संसारोत्था यस्य तत्तादृश-
मप्यात्मन इदं वर्ष्म शरीरमीश्वरस्तवैः परमेश्वरस्तवैः स्पृहणीयं काङ्क्षणीयमवैमि जाने ॥
 
सहस्वपत्रैरिव पल्वलोदकं शिरः फणीन्द्रस्य मणिब्रजैरिव ।
सदोषमप्येतदवैमि मानुषं मनोरमं जन्म महेश्वरस्तवैः ॥ १३ ॥
 
सदोषमपि कलुषमपि पल्वलजलं तटाकोदकं सहस्रपत्रैः कमलैर्मनोरमं यथा भवति ।
'सहस्रप कमलं' इत्यमरः । यथा सदोषमप्यविरलगरलापूर्णमपि फणीन्द्रस्य शिरोमणि
व्रजै रत्नव्रातैर्मनोरमं भवति । तथा सहदोषैः संसारोत्यैर्वर्तते यत्तादृशमप्येतन्मानुषं मानुष-
स्येदं मनुष्यजन्म महेश्वरस्य स्तवैर्मनोरममभिलषणीयमहं जाने ॥
 
१. 'वपुर्बहुक्लेशमपीदमीश्वरस्तवैरवैमि स्पृहणीयमात्मनः' क.
 
Digitized by Google