This page has been fully proofread once and needs a second look.

स्तुतिकुसुमाञ्जलिः ।
 
अद्यापि वाडवशिखापरिणद्धमुग्ध-

दुग्धाब्धिमध्यग इव श्रितमेति चन्द्रः ॥ २१ ॥

 
अव्यादिति । स महेशो वो युष्मानव्यात् । स क इत्याह – यस्य विभोः शिरसि

विलोचनाग्निज्वालाभिरवलीढं प्रस्तं सर्वतो व्याप्तं यत्सुरसिन्धुजलं गङ्गाजलं तेनोपगूढः

सर्वतो व्याप्तश्चन्द्रः श्रियं शोभामेति । अत्रोत्प्रेक्षा–कीदृश इव । अद्यापि वर्तमान-

कालेऽपि वाडवशिखाभिर्वडवाग्निज्वालाभिः परिणद्धो व्याप्तो यो रम्यो दुग्धान्ब्धिः

क्षीरसमुद्रस्तन्मध्यग इव ॥
 

 
अव्यात्स वः सुकृतिनामलिकेषु धूली-

पट्टीकृतेषु पदरेणुभरेण यस्य ।

धाताक्षराणि लिखति क्षितिपालमौलि-
३ स्तोत्रम्]
 
-
 

मालार्चिताङ्घ्रिकिमलो भविता भुवीति ॥ २२ ॥
 

 
अव्यादिति । स परमेशो वो युष्मान् रक्षतु । स क इत्याह - यस्य श्रीशिवभट्टार-

कस्य पदरेणुभरेण पादाम्बुजरेणुपटलेन धूलिपट्टीकृतेषु अलिकेषु ललाटेषु सुकृतिनां

धन्यानां भक्त्या संकुचितानां दण्डवत्प्रणत्या धूलिपट्टितललाटानां तेषु धाता विधिरि-

त्यक्षराणि लिखति । किमित्याह – असाविति शेषः । असौ नृपतिमौलिमालाभिः

पूजितान्त्ङ्घ्रिकमलः सम्राट् भुवि भूमौ भविता भविष्यतीति ॥

 
शैवी [^१]शिवं दिशतु शीतमरीचिलेखा

जूटाहिरत्नकिरणच्छुरणारुणा वः ।

देवी नवीननखलक्ष्मधिया पिधत्ते
 

यत्संक्रमं कुचतटे पटपल्लवेन ॥ २३ ॥
 

 
शैवीति । जूटाहिरत्नानां कपर्दस्थाहिरत्नानां ये किरणास्तेषां छुरणं व्याप्तिस्तेना-

रुणा शैवी श्रीशिवभट्टारकसंबन्धिनी सा शीतमरीचिलेखा चन्द्रकला वः शिवं दिशतु ।

सा का इत्याह – यत्संक्रमं यस्याश्चन्द्रकलायाः प्रतिबिम्बं कुचतटे अत्यन्तस्वच्छे पतितं

पटपल्लवेन उत्तरीय पटपल्लवेन देवी श्रीभवानी आच्छादयति । अत्र हेतुः - कया । नवीनं

नूतनं सान्द्रं यन्नस्खलक्ष्म नखक्षतचिह्नं तद्धिया । यथा च जयाविजयाद्याः सख्य एतन्न

पश्यन्तीत्यर्थः ॥
 

 
देव्यास्तदस्तु कुचचूचुकमिन्दुमौलि-

देहार्धबद्धवसतेरमृताप्तये वः ।

अभ्येति यन्मदनपूज्यसुवर्णपीठ-

ष्टष्ठप्रतिष्ठितहरिन्मणिलिङ्गभङ्गिम् ॥ २४ ॥
 

 
[^
]. "श्रियं दिशतु शीतमयूखलेखा' इति क-पाठ:.
 
Digitized by Google