This page has not been fully proofread.

स्तुतिकुसुमाञ्जलिः ।
 
अद्यापि वाडवशिखापरिणद्धमुग्ध-
दुग्धाब्धिमध्यग इव श्रितमेति चन्द्रः ॥ २१ ॥
अव्यादिति । स महेशो वो युष्मानव्यात् । स क इत्याह – यस्य विभोः शिरसि
विलोचनाग्निज्वालाभिरवलीढं प्रस्तं सर्वतो व्याप्तं यत्सुरसिन्धुजलं गङ्गाजलं तेनोपगूढः
सर्वतो व्याप्तश्चन्द्रः श्रियं शोभामेति । अत्रोत्प्रेक्षा–कीदृश इव । अद्यापि वर्तमान-
कालेऽपि वाडवशिखाभिर्वडवाग्निज्वालाभिः परिणद्धो व्याप्तो यो रम्यो दुग्धान्धिः
क्षीरसमुद्रस्तन्मध्यग इव ॥
 
अव्यात्स वः सुकृतिनामलिकेषु धूली-
पट्टीकृतेषु पदरेणुभरेण यस्य ।
धाताक्षराणि लिखति क्षितिपालमौलि-
३ स्तोत्रम्]
 
-
 
मालार्चिताकिमलो भविता भुवीति ॥ २२ ॥
 
अव्यादिति । स परमेशो वो युष्मान् रक्षतु । स क इत्याह - यस्य श्रीशिवभट्टार-
कस्य पदरेणुभरेण पादाम्बुजरेणुपटलेन धूलिपट्टीकृतेषु अलिकेषु ललाटेषु सुकृतिनां
धन्यानां भक्त्या संकुचितानां दण्डवत्प्रणत्या धूलिपट्टितललाटानां तेषु धाता विधिरि-
त्यक्षराणि लिखति । किमित्याह – असाविति शेषः । असौ नृपतिमौलिमालाभिः
पूजितान्त्रिकमलः सम्राट् भुवि भूमौ भविता भविष्यतीति ॥
शैवी शिवं दिशतु शीतमरीचिलेखा
जूटाहिरत्नकिरणच्छुरणारुणा वः ।
देवी नवीननखलक्ष्मधिया पिधत्ते
 
यत्संक्रमं कुचतटे पटपल्लवेन ॥ २३ ॥
 
शैवीति । जूटाहिरत्नानां कपर्दस्थाहिरत्नानां ये किरणास्तेषां छुरणं व्याप्तिस्तेना-
रुणा शैवी श्रीशिवभट्टारकसंबन्धिनी सा शीतमरीचिलेखा चन्द्रकला वः शिवं दिशतु ।
सा का इत्याह – यत्संक्रमं यस्याश्चन्द्रकलायाः प्रतिबिम्बं कुचतटे अत्यन्तस्वच्छे पतितं
पटपल्लवेन उत्तरीय पटपल्लवेन देवी श्रीभवानी आच्छादयति । अत्र हेतुः - कया । नवीनं
नूतनं सान्द्रं यन्नस्खलक्ष्म नखक्षतचिह्नं तद्धिया । यथा च जयाविजयाद्याः सख्य एतन्न
पश्यन्तीत्यर्थः ॥
 
देव्यास्तदस्तु कुचचूचुकमिन्दुमौलि-
देहार्धबद्धवसतेरमृताप्तये वः ।
अभ्येति यन्मदनपूज्यसुवर्णपीठ-
ष्टष्ठप्रतिष्ठितहरिन्मणिलिङ्गभङ्गिम् ॥ २४ ॥
 
१ "श्रियं दिशतु शीतमयूखलेखा' इति क-पाठ:.
 
Digitized by Google