This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
यथा कश्चिद्गुणैर्लावण्यादिभिरलंकृतया रामया कृतार्थो भवति तथेत्यर्थः । तथा इयं तनुश्च

निरामया नीरोगा स्थिरा यन्मया घ्ध्रियते तथा भवे परमेश्वरे च भक्तिः स्थिरा अभङ्गुरा

अविच्छिन्ना निरामया मन्ये विस्मृतिरूपामयरहिता च यन्मया प्ध्रियतेऽतः कृतार्थोऽस्म्य-

हमित्यर्थः ॥
 

 
न विद्यया प्रीतिरनर्मानया तथा श्रिया वान्वहमेधमानया ।

शिवस्तवैकव्रतया[^१]समानया यथा गिरा सान्द्रसुधासमानया ॥ ७ ॥
 

 
असमानया असामान्यया । तथा सान्द्रसुबाधासमानया नामृततुल्यया शिवस्तव एवैकं

व्रतं यस्याः सा तादृशी तथा गिरा यथा प्रीतिर्भवेत्तथा अनर्घो मानः पूजा यस्याः सा ता-

दृश्या । वाशब्दश्चार्थे । तथा अन्वहं प्रतिदिनमेधमानया वर्धमानया श्रिया लक्ष्म्यापि प्री-

तिर्न भवति ॥
 

 
पुरःस्फुरन्तं विमृशन्महेश्वरं विलीनवेद्यान्तरवेदनो दशाम् ।
 

नवस्तवोल्लेखविधौ स्पृशामि यां ममान्तरात्मा विभुरेव वेत्ति ताम् ॥ ८ ॥

 
विलीनं वेथाद्यान्तरस्य वेदनं प्रत्यभिज्ञानं यस्य स तादृशोऽहं पुरोऽप्ग्रे स्फुरन्तं महेश्वरं

भावनया विमृशन् नवा नूतना ये स्तवास्तेषामुल्लेखास्तस्य विधौ यां दशामवस्थां भूमिकां

स्पृशामि तां मम दशामन्तरात्मा विभुरेव वेत्ति । नान्य इत्यर्थः ॥
 

 
मनुष्यता पूरुषताग्र्यवर्णता मनीषिता सत्कविता शिवैकता ।
 

इयं मम क्षेमपरम्परा विभोः स्तुतिप्रसङ्गेन गता कृतार्थताम् ॥ ९ ॥
 

 
मम धन्यस्यानेकजन्मसु सत्स्वपि मनुष्यजन्मप्राप्तिः प्रथमं क्षेमम् । तत्रापि स्त्रीज
-
न्मादिकुत्सितान्यजन्मत्वेऽपि सति पुरुषजन्मप्राप्तिर्द्वितीयं क्षेमम् । पूरुषजन्मत्वे वर्णच-

तुष्टयत्वेऽपि मुख्यमभ्ग्र्यवर्णत्वं ब्राह्मणजन्मप्राप्तिस्तृतीयं क्षेमम् । तत्रापि मनीषिता

पाण्डित्यं चतुर्थं क्षेमम् । तत्रापि सत्कविता प्रौढोक्तिनिपुणकविता पञ्चमं क्षेमम् । तत्रापि

शिवैकताध्यानं सर्वेषामेषामवतंसभूतं षष्ठं क्षेमम् । इत्यनेन प्रकारेणेयं मम क्षेमाणां कल्या-

णानां परम्परा विभोः श्रीपरमशिवस्य स्तुतिप्रसङ्गेनानेन कृतार्थतां साफल्यं गता । अत्र सा-

रालंकारो व्यङ्ग्यः ॥
 

 
एवमभिनवस्तुतिप्रसूनाञ्जलिवितरणेन निश्चितं दयाम्बुनिधिं विभुं प्रहृष्टं मन्यमानः क
-
विरात्मानं कृतकृत्यं जानन्नाह -
 

 
ध्रुवं नवानां रसगर्भनिर्भरध्वनिर्घनानामनघेयमावलिः ।
 

पृथुप्रभावं शशिखण्डमण्डितं प्रहर्षिणं नीलगलं करिष्यति ॥ १० ॥

 
ध्रुवं निश्चये । घनानामावलिः पङ्क्तिर्नीलगलं श्रीशंभुमष्टात्रिंशत्संख्यया परिमितत्वाद्व-

हुलानां नवानां स्तवानां प्रहर्षिणं प्रकर्षेण हर्षयुक्तं करिष्यति । किंभूता स्तवानामावलिः ।
 

 
[^
]. 'ममानया' ख.
 
Digitized by Google