This page has been fully proofread once and needs a second look.

३८ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
सरस्वतीवेन्दुकलोद्गता
 
करैः सरस्वतीव श्रवणामृतैः खरैः ।

सरस्वतीवोर्मिभिरीश्वरस्तवैः सरस्वती वर्षतु वः सुधामियम् ॥ २ ॥
 

 
इयं मम सरस्वती वाणी वो युष्माकं सुधाममृतं वर्षतु । कैः । ईश्वरस्तवैः । केव । इ-

न्दुकला चन्द्रकलेव । किंभूता इन्दुकला । उद्गता उद्भूता । कस्मिन् । सरस्वति समुद्रे । 'स-

रस्वान्सागरोऽर्णवः' इत्यमरः । यथा समुद्रोत्पन्ना चन्द्रकला करैः किरणैः सुधां वर्षति त

थेयमपीत्यर्थः । पुनः केव । सरस्वती वीणेव । यथा वीणा श्रवणामृतैः शब्दःदैः सुधां वर्षति

तथेत्यर्थः । पुनः केव । सरस्वती नाम्नी नदीव । यथा साप्यूमिंर्मिभिर्वीचिभिः सुधां वर्षति

तथेत्यर्थः ॥
 

 
विमर्शशून्येन मया निरर्थकः खलेन कालः सकलोऽतिवाहितः ।

इदं त्वसारादतिसारमुद्धृतं धृतं यदीशस्तुतिवेतनं मनः ॥ ३ ॥
 
४४३
 

 
मया विमर्शशून्येन खलेन दुष्टेन सकलः कालो निरर्थको निष्फलोऽतिवाहितो नीतः ।

तु पक्षान्तरे । विमर्शे कृते सकला देवासारादिदमतिशयेन सारं वस्तु समुद्धृतम् । किं तदि-

त्याह – मया यन्मनश्चित्तमीशस्तुतिवेतनमीशस्य परमेशस्य स्तुतिरेव वेतनमवश्यदेयं यस्य

तत्तादृशं धृतम् ॥
 

 
न हृद्यतामेति परस्य दुर्मुखः शिशुः स्रवत्पीनसदिग्धनासिकः ।
 

पितुः स्वकीयस्य तु जीविताधिकस्तथोपहास्योऽपि ममायमुद्यमः ॥ ४ ॥
 

 
दुष्टं चिपिटनासिकक्लिन्नाक्षित्वादियुक्तं मुखं यस्य स तादृशो दुर्मुखः । तथा स्रवद्यत्पीनसं

नासिकामलं तेन दिग्धा लिप्ता नासिका यस्य स तादृशः शिशुर्बालः परस्य हृद्यतां प्रि-

यत्वं नैति किं तु स्वकीयस्य पितुः स एव शिशुर्जीवितादप्यधिको भवति यथा तथा ममा-

यमुद्यमः श्रीशिवस्तुतिप्रबन्धरूप उपहास्योऽप्युपहसनीयोऽपि भवतीति जाने ॥
 

 
अवैमि भाग्योपचयः स पुष्कलः स शक्तिपातः खलु पारमेश्वरः ।

स वा महार्हो महतामनुग्रहो यदीश्वराराधनसाधनं मनः ॥ ९ ॥

 
अहमवैमि जाने स पुष्कल: पूर्णो भाग्यानामुपचय आधिक्यम् । खलु निश्चये । स

पारमेश्वरः परमेश्वरसंबन्धी शक्तिपातः सानुग्रहं दृष्टिपातरूपः शक्तिपातो भवति । वाशब्द-

श्
चार्थे । तथा स महार्हो महामहनीयो महतां सद्गुरूणामनुग्रहः । स क इत्याह – यन्मनो

भवति । किंभूतम् । ईश्वराराधनं साधयतीति तादृशम् ॥
 

 
अहो कृतार्थोऽस्मि मनोभिरामया गिरा गुणालंकृतयेह रामया ।
 

तनुः स्थिरेयं धिघ्रियते निरामया भवे च यद्भक्तिरभङ्गुरा मया ॥ ६ ॥

 
अहो आश्चर्ये । इह जगति गुणैर्माधुर्यादिभिस्त्रिभिरलंकृता तादृश्या । तथा मनोभिरा-

मया मनोहारिण्या गिरा वाण्या कृतार्थोऽस्मि धन्यो भवामि । गिरा कयेव । रामयेव ।
 
Digitized by Google