This page has not been fully proofread.

३७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
४४९
 
तस्य कःस्विदास्वादो भवति इति तव मनसि यदि कौतुकं भवति तदा श्रीशंभोरिमा म
दीयाः स्तुतीराकर्णय शृणु । ततो रसायनरसादप्येता अतिहया इत्यर्थः ॥
विषयोपभोगरहितः सहजो हादः सतां मतो मोक्षः ।
 
तमपि यदीच्छसि वेदितुमवहितहृदयः शृणु स्तुतीः शंभोः ॥ १५ ॥
 
हे नतजन, विषयाणां शब्दादीनामुपभोगस्तेन रहितः सहजो ह्लादः परमानन्दः सतां
विदुषां मोक्षः कैवल्यपर्यायो मतः । तमपि मोक्षं वेदितुं ज्ञातुं यदि त्वमिच्छसि तदा अव-
हितं सावधानं हृदयं यस्य स तादृशो भूत्वा शंभोः स्तुतीः शृणु ॥
 
अशुचि शुचामायतनं मलकलिलमिदं कलेवरं सैत्यम् ।
 
भगवदुपासनसाधनमिति भवति न कस्य कमनीयम् ॥ १६ ॥
 
अशुचि अपवित्रम् । तथा शुचां भवजनितदुःखानामायतनं गृहम् । तथा मलेन पापेन
कलिलं कलुषमिदं कलेवरं शरीरं सत्यमेतत् । एवंभूतमपि कलेवरमिति हेतोः कस्य न स-
चेतनस्य कमनीयं काङ्क्षणीयं भवति । इति किमित्याह – भगवदित्यादि । एतत्कलेवरं भ
गवतः श्रीशंभोरुपासनं भजनं तत्साधयतीति भगवदुपासनसाधनं भवतीत्यत एव कस्य न
काङ्क्षणीयमस्ति ॥
 
यदि मनुषे यमनियमप्राणायामादि दुर्घटं कर्तुम् ।
 
तदिमं सुगममुपायं श्रय परमपदाप्तये नैतिं शंभोः ॥ १७ ॥
 
हे नतजन, यमाश्च नियमाश्च प्राणायासश्च आदिशब्देन धारणादयः । एतमष्टाङ्गयोगं
कर्तुं दुर्घटं दुष्करं यदि मनुषे चेज्जानासि तर्हि अतीव सुगममुपायं परमपदस्य कैवल्यस्या-
वाप्तये शंभोनुतिं स्तुतिं श्रय । श्रीशंभुस्तुतिविधानेन तव श्रेयः सुलभमित्यर्थः ॥
अथेदानीमेतस्यापि स्तोत्रस्योपसंहारार्थ वृत्तत्रयमाह -
 
सिद्धं सम्यगभीष्टं सत्यगिरामाशिषः सतां फलिताः ।
 
लब्धं सुकृतस्य फलं निर्व्यूढेयं यतः स्तुतिः शंभोः ॥ १८ ॥
 
-
 
सम्यक् सम्यक्प्रकारेण ममाभीष्टमभिलषितं सिद्धं निष्पन्नम् । तथा सत्यगिरां तथ्यव-
चसां सतां साधूनामप्याशिषो मम फलिताः । तथा सुकृतस्य प्राग्जन्मोपार्जितस्यापि फलं
मया लब्धम् । कुत इत्याह - इयं शंभोः श्रीशिवभट्टारकस्य स्तुतिर्यतो निर्व्यूढा निर्वाहं
प्राप्तुं पारिता ॥
 
मम सारः संसारः सकलमिदं मर्त्यजन्म मम सफलम् ।
 
मम सहशोऽस्ति न केश्चन यदहं स्तोता शिवस्य संवृत्तः ॥ १९ ॥
ममैव धन्यस्य संसारः सारः । इदं मानुषजन्म ममैव सफलं कृतार्थम् । इह भूमौ मम
१. 'सहजाह्लादः' स्व. २. 'तथ्यम्' ख. ३. 'स्तुतिं' ख. ४. 'निर्व्यूढा यत्स्तुतिः' ख.
५. 'कश्चित्' क.
 
Digitized by Google