This page has not been fully proofread.

काव्यमाला ।
 
सा क्रीडा सा गोष्ठी सा विश्रान्तिः स भूमिकालाभः ।
साखिलदुःखनिवृत्तिर्यत्र नुतिः शांभवी श्रुतिं विशति ॥ १० ॥
 
सा क्रीडा खेला भवति । सैव गोष्ठी सभा भवति । सैव विश्रान्तिः परमा । स एव
भूमिकालाभः श्रेयान् । भवरङ्गे नृत्यतो देहिन एष एव भूमिका लाभः श्रेयान् । सैवा-
खिलदुःखस्य भवमरुभ्रमणेनावाप्तस्य निवृत्तिर्भवति । यत्र शांभवी नुतिः कर्णगोचरं
विशति ॥
 
तद्ध्यानं स समाधिः स महायागस्तदर्चनं सकलम् ।
 
सा खलु परमा दीक्षा यत्र नुतिः शांभवी श्रुतिं विशति ॥ ११ ॥
 
तदेव ध्यानं संयतचित्तीभूय शिवैकताध्यानम् । यद्वा श्रीसकलभहारकध्यानं 'त्रिपञ्च-
नयनं देवं जटामुकुटमण्डितम्' इति श्रीस्वच्छन्दतत्रोक्तम् । स एव समाधिः शिवैकता-
वाप्तये आत्ममनसोरैक्यम् । स एव महायागो नवनाभसंज्ञः श्रीस्वच्छन्दतन्त्रराजोक्तः ।
तदेव सकलमर्चनं पूजोपचारः । सैव परमा श्रीशिवपदप्राप्तिदायिनी दीक्षा षडध्वदीक्षा
भवति । सापि तत्रैव तन्त्रराजे श्रीशंभुना पशुपाशनिवृत्तये प्रकाशिता । सा केत्याह – यत्र
शांभवी नुतिः श्रुतिं विशति कर्णगोचरीभवति ॥
 
इदानीं नतजनोपदेशं कतिपयैर्वृत्तैराह -
 
यदि पारिजातकुसुमस्तबकस्तव कर्णयोरलंकरणम् ।
 
भवितुं भवति न सुलभः श्रुतिपथमेता नय स्तुतीः शंभोः ॥ १२ ॥
 
हे प्रणतजन, पारिजातस्य पारिजाताख्यदेवद्वमस्य स्वर्गोद्याननन्दनस्थितस्य कुसुम-
स्तबकः पुष्पाणां गुच्छस्तव कर्णयोभूषणं भवितुं यदि न सुलभो भवति तदा एता मदीयाः
श्रीशिवस्य शंभोः स्तुतीः श्रुतिपथं कर्णमार्ग स्वकीयं नय । स्वर्गतरुपारिजातकुसुमस्तव-
केभ्योऽप्येता अतिहृद्या इत्यर्थः ॥
 
अभिलषसि यदि निरोद्धुं पवनादपि दुर्ग्रहं मनोहरिणम् ।
 
तदिमा गृहाण निभृतं दृढगुणगणगुम्फिताः स्तुतीः शंभोः ॥ १३ ॥
 
हे नतजन, पवनादपि वायोरपि दुर्भहं दुःखेन ग्रहीतुं शक्यं मन एव हरिणो मृगविशे-
षस्तं निरोद्धुं संयतं कर्तुं यदि काङ्क्षसि तदा इमा मदीयाः स्तुती: श्रीशंभोनिभृतं निश्चली-
भूय गृहाण । किंभूताः स्तुतीः । दृढा ये गुणा माधुर्यौजःप्रसादाख्यास्त्रयस्त एव गुणास्त-
न्तवस्तैर्बद्धाः । हरिणमपि बन्दुं तन्तुषद्धा वागुरा भवति ॥
 
यदमृतमम्बुधिमन्थनसमुत्थितं तस्य कः स्विदावादः ।
 
इति यदि हृदि तक कौतुकमाकर्णय तत्स्तुतीरिमाः शंभोः ॥ १४ ॥
हे नतजन, अम्बुधेः समुद्रस्य मन्थनं सुरासुरैर्यत्नेन कृतं ततः समुत्थितं यदमृतं सुधा
 
Digitized by Google