This page has been fully proofread once and needs a second look.

३७ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
४३९
 
हे शिव कल्याणदायिन्, शिव परमेश, शं निःश्रेयसं करोतीति शंकरस्तस्य संबोधनं

शंकर, त्वं गतिरुपायो भव । अर्थादगतिकस्य ममेत्यर्थः । इत्यनेन प्रकारेण प्रलापो वी-

प्सया भाषणरूपस्तेन मुखरं प्रगल्भं मुखं यस्य स तादृशो यः पुमान्भवति हि निश्चयेन

तस्यैव सफलानि दिनानि । शिवसायुज्यं परमात्मैक्यं च हस्तगतम् । करबदरतुल्यमित्यर्थः ॥

 
इह खलु पशुपतिनुतिभिः कतिपयमपि यः कृतार्थयति कालम् ।

सकलकलिकलुषमुक्तो जीवन्मुक्तः स किं बहुना ॥ ५ ॥
 

 
खलु निश्चये । यो मनुष्य इह जगति पशुपतिनुतिभिः पञ्चकलापाशबद्धा जनाः पशव-

स्तेषां पतिः श्रीशंभुस्तस्य स्तुतिभिः कतिपयमपि कालमतिस्वल्पं निमेषक्षणमुहूर्तादिकं कृ-

तार्थयति सफलयति स धन्यः कलेस्तुरीययुगस्य कलुषं पापं तस्मान्मुक्तः सन् जीवन्नेत्र मु

क्तो भवति । किंबहुनोक्तेन ॥
 

 
उपचितकुशलश्रेणिः परमपदारोहणैकनिःश्रेणिः ।
 

जयति महामृतवेणिर्विबुधजनाहाह्लादिनी नुतिः शंभोः ॥ ६ ॥

 
विबुधगणान्देवगणान्सहृदयजनां श्वाचाह्लादयति तादृशी श्रीशंभोः स्तुतिर्जयति सर्वोत्कृष्टा

भवति । स्तुतिः किंभूता । उपचिता पूरिता कुशलानां मङ्गलानां भवाब्ध्युत्तरणरूपाणां

श्रेणिः पङ्क्तिर्यया सा । स्तुतिः का । परमपदे कैवल्यपदे यदारोहणं तत्रैका निःश्रेणिरधिरो-

हिणी । तथा महामृतस्य परमानन्दरसायनस्य वेणिः प्रवाहः ॥
 

 
किमियं सद्गुरुदृष्टिर्हाह्लादैकमयी नु किं जगत्सृष्टिः ।
 

किं वा निरभ्रवृष्टिः श्रवणामृतवर्षिणी नुतिः शंभोः ॥ ७ ॥
 

 
श्रवणयोः सहृदयश्रोत्रयोरमृतवर्षिणी श्रीशंभोः स्तुतिरियं मद्गुरोः श्रीशिवशासनोपदे-

शकरस्य दैशिकवरस्य दृष्टिरनुग्रहदृष्टिः किं भवति । यद्वा हाह्लादैकमयी परानन्दैकमयी ज

गतः सृष्टिः किं भवति । किंवा निरभ्र आकाशे वृष्टिर्जीवनवर्षणं भवति । संशयालंकारः ॥

 
अक्षयसुखोपभुक्तिः परमशिवावाप्तये नवा युक्तिः ।
 

यदि वा जीवन्मुक्तिः श्रवणामृतवर्षिणी नुतिः शंभोः ॥ ८ ॥
 

 
श्रवणामृतवर्षिणी शंभोनुतिरक्षयं निर्विनाशं यत्सुखं कैवल्यरूपं तस्योपभुक्तिः किम् ।

यद्वा परमशिवस्य ब्रह्मादिकारणष द्वाट्कातीतस्यावाप्तये लाभाय नवा अपूर्वा युक्तिरुपाय: । यदि

वा साक्षादेव जीवन्मुक्तिर्भवति ॥
 

 
क्षेत्रं तदिह पवित्रं तत्तीर्थं पावनं तदायतनम् ।
 

तदिह तपोवनमनघं यत्र नुतिः शांभवी श्रुतिं विशति ॥ ९ ॥
 

 
यत्र क्षेत्रादौ शांभवी स्तुतिः श्रुतिं विशति कर्णगोचरं प्राप्नोति तदेव क्षेत्रं पवित्रमिह

जगति । तदेव तीर्थं पवित्रम् । तदेवायतनं गृहं पवित्रम् । तदेवानघं निर्दोषं तपोवनं

भवति ॥
 
.
 
Digitized by Google