This page has not been fully proofread.

३७ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
४३९
 
हे शिव कल्याणदायिन्, शिव परमेश, शं निःश्रेयसं करोतीति शंकरस्तस्य संबोधनं
शंकर, त्वं गतिरुपायो भव । अर्थादगतिकस्य ममेत्यर्थः । इत्यनेन प्रकारेण प्रलापो वी-
प्सया भाषणरूपस्तेन मुखरं प्रगल्भं मुखं यस्य स तादृशो यः पुमान्भवति हि निश्चयेन
तस्यैव सफलानि दिनानि । शिवसायुज्यं परमात्मैक्यं च हस्तगतम् । करबदरतुल्यमित्यर्थः ॥
इह खलु पशुपतिनुतिभिः कतिपयमपि यः कृतार्थयति कालम् ।
सकलकलिकलुषमुक्तो जीवन्मुक्तः स किं बहुना ॥ ५ ॥
 
खलु निश्चये । यो मनुष्य इह जगति पशुपतिनुतिभिः पञ्चकलापाशबद्धा जनाः पशव-
स्तेषां पतिः श्रीशंभुस्तस्य स्तुतिभिः कतिपयमपि कालमतिस्वल्पं निमेषक्षणमुहूर्तादिकं कृ-
तार्थयति सफलयति स धन्यः कलेस्तुरीययुगस्य कलुषं पापं तस्मान्मुक्तः सन् जीवन्नेत्र मु
क्तो भवति । किंबहुनोक्तेन ॥
 
उपचितकुशलश्रेणिः परमपदारोहणैकनिःश्रेणिः ।
 
जयति महामृतवेणिर्विबुधजनाहादिनी नुतिः शंभोः ॥ ६ ॥
विबुधगणान्देवगणान्सहृदयजनां श्वाह्लादयति तादृशी श्रीशंभोः स्तुतिर्जयति सर्वोत्कृष्टा
भवति । स्तुतिः किंभूता । उपचिता पूरिता कुशलानां मङ्गलानां भवाब्ध्युत्तरणरूपाणां
श्रेणिः पतिर्यया सा । स्तुतिः का । परमपदे कैवल्यपदे यदारोहणं तत्रैका निःश्रेणिरधिरो-
हिणी । तथा महामृतस्य परमानन्दरसायनस्य वेणिः प्रवाहः ॥
 
किमियं सद्गुरुदृष्टिर्हादैकमयी नु किं जगत्सृष्टिः ।
 
किं वा निरभ्रवृष्टिः श्रवणामृतवर्षिणी नुतिः शंभोः ॥ ७ ॥
 
श्रवणयोः सहृदयश्रोत्रयोरमृतवर्षिणी श्रीशंभोः स्तुतिरियं मद्गुरोः श्रीशिवशासनोपदे-
शकरस्य दैशिकवरस्य दृष्टिरनुग्रहदृष्टिः किं भवति । यद्वा हादैकमयी परानन्दैकमयी ज
गतः सृष्टिः किं भवति । किंवा निरभ्र आकाशे वृष्टिर्जीवनवर्षणं भवति । संशयालंकारः ॥
अक्षयसुखोपभुक्तिः परमशिवावाप्तये नवा युक्तिः ।
 
यदि वा जीवन्मुक्तिः श्रवणामृतवर्षिणी नुतिः शंभोः ॥ ८ ॥
 
श्रवणामृतवर्षिणी शंभोनुतिरक्षयं निर्विनाशं यत्सुखं कैवल्यरूपं तस्योपभुक्तिः किम् ।
यद्वा परमशिवस्य ब्रह्मादिकारणष द्वातीतस्यावाप्तये लाभाय नवा अपूर्वा युक्तिरुपाय: । यदि
वा साक्षादेव जीवन्मुक्तिर्भवति ॥
 
क्षेत्रं तदिह पवित्रं तत्तीर्थ पावनं तदायतनम् ।
 
तदिह तपोवनमनघं यत्र नुतिः शांभवी श्रुतिं विशति ॥ ९ ॥
 
यत्र क्षेत्रादौ शांभवी स्तुतिः श्रुतिं विशति कर्णगोचरं प्राप्नोति तदेव क्षेत्रं पवित्रमिह
जगति । तदेव तीर्थ पवित्रम् । तदेवायतनं गृहं पवित्रम् । तदेवानघं निर्दोषं तपोवनं
भवति ॥
 
.
 
Digitized by Google