This page has not been fully proofread.

४३८
 
काव्यमाला ।
 
प्रत्यासन्नां श्रियमपि घिया तीक्ष्णया लक्षयन्ति
 
त्वद्भक्तान्ये श्रुतिमिव नुतिं तावकीं शिक्षयन्ति ॥ ४१ ॥
 
हे विभो दयालो, ते जनास्त्वां कर्मभूतमघं पातककर्म तक्षयन्ति । 'तक्ष त्वक्ष तनूकरणें
धातुः । अघं किंभूतम् । गुरुं महान्तम् । यथा केचन तक्षाणं तरुं तक्षयन्ति तथैवेत्यर्थः ।
तथा ते जनास्तृप्तिं लब्धं निर्भरं पूर्ण शुभफलसमूहं भक्षयन्ति । तथा तीक्ष्णयातिनिपुणया
धिया बुद्धया ध्यानैकसक्तया प्रत्यासन्नां निकटवर्तिनीं श्रियं लक्ष्मी लक्षयन्ति । ते क इ-
त्याह—ये धन्या जनास्त्वद्भक्तान् भवद्भक्तजनान् श्रुतिमिव तावकीं नुतिं स्तुतिं
शिक्षयन्ति ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशम् ।
 
सप्तत्रिंशं स्तोत्रम् ।
 
अथातः स्तुतिप्रशंसास्तोत्रं प्रन्थकृत्सप्तत्रिंशमारभमाण आह-
इह हि स्वात्ममहेश्वरपरिभावनशुद्धसंविदः सुधियः ।
कमलदलानि जलैरिव बहिरावरणैर्न लिप्यन्ते ॥ १॥
 
हि निश्चये । इह जगति स्वश्वासावात्मा तस्य महेश्वरपरिभावना शिवैकताध्यानं तेन
शुद्धा निर्मला संविन्मतिर्येषां तादृशा जलैर्जलबिन्दुभिः पद्मपत्राणीव बहिरावरणैः शुभाशु-
भशबलरूपत्रिविधकर्मभिर्बुद्धीन्द्रियकर्मेन्द्रियकृतैर्न लिप्यन्ते । कदापीत्यर्थः ॥
कविमुखकमलोपवने कृतवसतिर्जयति सूक्तिकल्पलता ।
 
या फलति भुक्तिमुक्ती शिवभक्तिसुधारसासेकैः ॥ २ ॥
 
कवीनां मुखकमलमेवोपवनं तत्र सा सूक्तिः प्रौढोक्तिः कल्पलता श्रीशिवभक्तिरसायनर-
सासेकैर्भुक्तिमुक्ती बुभुक्षुमुमुक्षुजनाभिलषिते फलति निष्पादयति । दत्त इत्यर्थः ॥
 
जय जय हर रक्ष भयादेवं देवं शिवं शिवं लब्धुम् ।
 
यः स्तौति तस्य सफलः सारः सारस्वतः स्वतः स्फारः ॥ ३ ॥
 
जयजयेति पौनरुक्त्ये भक्त्युल्लासान्न दोषः । एवमन्यत्रापि । हे हर भवामयहर, त्वं
जय सर्वोत्कृष्टो भव । मामशरणं भयाज्जन्मजरामरणोत्थत्रासाद्रक्ष । एवमनेन प्रकारेण
शिवं कल्याणं लब्धं यः श्रीशिवं परमेश्वरं स्तौति तस्य धन्यस्य सार उत्कृष्टः सारस्वतो
वाणीसंबन्धी स्फार उल्लास: सफलः कृतकृत्यो भवति । तस्यैव सफला वाणीत्यर्थः ॥
 
शिव शिव शंकर शंकर भव गतिरिति यः प्रलापमुखरमुखः ।
तस्य हि सफला दिवसाः शिवसायुज्यं च हस्तगतम् ॥ ४ ॥
 
Digitized by Google