This page has not been fully proofread.

३६ स्तोत्रम् ]]
 
स्तुतिकुसुमाञ्जलिः ।
 
ते निर्वेदं मनसि शमिनामहुतं ह्रासयन्ति
त्रस्तानस्तंगमितविपदः शश्वदाश्वासयन्ति ।
त्वद्भावैकप्रैवणभणितैरन्तकं त्रासयन्ति
 
स्तुत्या ये त्वां नतजनहृतत्रासमुल्लासयन्ति
 
॥ ३८ ॥
 
ते जनाः शमिनां मनसि चित्ते निर्वेदं ह्रासयन्ति दूरीकुर्वन्ति । कथम् । अद्भुतमजस्रम् ।
ते जनास्त्रस्तान्भीतानपि अशरणान् शश्वत्सदा आश्वासयन्ति । किंभूताः । अस्तंगमिता
दूरीकृता विपद्येषां ते तादृशान् । तथा ते जनास्त्वद्भावे त्वद्भावनाया मेकप्रवणानि च तानि
भणितानि सूक्तानि तैरन्तकं यमं त्रासयन्ति । ते के । ये त्वां नतजने हृतस्त्रासो येन स
तादृशं त्वां स्तुत्या उल्लासयन्त्यानन्दयन्ति ॥
 
ते तज्ज्ञानां परिषदि गुणानात्मनः शंसयन्ति
स्वान्ते चान्तर्यमभुजगजं साध्वसं ध्वंसयन्ति ।
क्लेशान्पाशानिव च निबिडानाशु विस्रंसयन्ति
 
प्रौढानां ये तव नुतिमधिश्रोत्रमुत्तंसयन्ति ॥ ३९ ॥
 
ते जनास्तज्ज्ञानां विदुषां सदस्यात्मनो गुणान् । सभ्यानिति शेषः । सभ्यान् शंसयन्ति ।
ते जनाः स्वान्ते मनसि अन्तः यमभुजगजं कालपाशोत्थं साध्वसं भयं ध्वंसयन्ति । तथा
ते जनाः क्लेशानविद्यादीन् पञ्च निबिडान् पाशानिव आशु विस्रंसयन्ति निवारयन्ति । ये
तव विभोर्नुतिं प्रौढानामधिश्रोत्रं श्रोत्रे कर्णोपरि उत्तंसयन्त्यवतंसयन्ति ॥
ते त्वद्भक्तिव्यसनमनघं कर्म निर्वाहयन्ति
 
४३७
 
त्वत्सेवासु स्थिरमविरतं चित्तमुत्साहयन्ति ।
स्वं चाघौघं यममदनवत्त्वशा दाहयन्ति
 
त्वां विज्ञप्ति स्वयमवहितं येऽन्वहं ग्राहयन्ति ॥ ४० ॥
हे विभो, ते जनास्त्वद्भक्तिरेव व्यसनं यस्मिंस्तत्कर्म निर्वाहयन्त्यतिवाइयन्ति । तथा ते
जनाश्चित्तं मनोऽविरतमनिशं त्वत्सेवासु स्थिरमुत्साहयन्ति सोद्योगं कुर्वन्ति । तथा ते
जना यममदनवत् कालकामवत् निजं स्वकीयमघौघं पातकराशिं तवैव विभोर्दृष्टया दाह-
यन्ति । ते के । ये जना अन्वहं प्रतिदिनमवहितं सावधानीभूय स्वयमेव त्वां विभुं विज्ञप्तिं
ग्राहयन्ति । अवहितमिति क्रियाविशेषणम् ॥
 
अथास्य स्तोत्रस्योपसंहार श्लोकमेकमाह -
 
ते तैक्षाणं तरुमिव गुरुं त्वामधं तक्षयन्ति
प्राप्तुं तृप्तिं शुभफलभरं निर्भरं भक्षयन्ति ।
 
१. 'आहतं' ख. २. 'श्रवण' ख. ३. 'हितं' ख. ४. तक्षाण:' क.
 
Digitized by Google