This page has been fully proofread once and needs a second look.

४३६
 
काव्यमाला ।
 
तेषां सूक्तीरमलमतयः पूगवञ्चर्वयन्ति

क्रूराणां ते मदमभिमुखं प्रेशिङ्खितं खर्वयन्ति ।

तान्विद्वांसस्तव नवसुधाखास्वादनायाह्वयन्ति
 

त्वत्पादाग्रे मुदितमनसो ये शिरः प्रह्वयन्ति ॥ ३५ ॥
 

 
अमलमतयो विशुद्धधियस्तेषां जनानां सूक्तीः प्रौढोक्तीः पूगवत् पूगफलवत् चर्वयन्त्या

स्वादयन्ति । तथा ते जनाः क्रूराणामुद्वृत्तानामभिमुखं प्रेसिङ्खितं भ्राम्यन्तं मदं गर्वेवं खर्वयन्ति

ह्व
स्वयन्ति । तथा तान् जनान् तव विभोर्नवः स्तव एव सुधा तस्यास्वादनाय विद्वांसो वि-

बुधा आह्वयन्त्याकारयन्ति । ते क इत्याह – हे विभो, ये धन्या मुदितमनसः सन्तस्त्वच्ञ्च-

रणाप्ग्रे शिरः स्वकीयं प्रह्वयन्ति नमयन्ति ॥
 

 
ते दुर्वृत्तानपि न कृपया पेशलाः क्लेशयन्ति
 

ग्लानिं ज्ञानां व्यसनजनितामाशये नाशयन्ति ।

तृष्णार्तानप्यमृतमधुराः स्वा गिरः प्राशयन्ति
 

त्वामन्तर्ये शकलितकलिक्लेशमावेशयन्ति ॥ २६ ॥
 

 
ते जनाः कृपया पेशला आर्द्रमनसः सन्तो दुर्वृत्तानपि न क्लेशयन्ति । तथा व्यसनेन

विपदुत्थेन जनितां ग्लानिं ज्ञानां विदुषामाशये मनसि नाशयन्ति । तृष्णया श्रवणेच्छया

आर्तास्तानपि अमृतमधुरा रसायनरससदृशी: स्वा गिरः प्रौढोक्ती: प्राशयन्ति भोज-

यन्ति । ये जनाः शकलितस्तुरीययुगस्य क्लेशो येन तादृशं त्वामन्तर्मनसि आवेशयन्ति

प्रवेशयन्ति ॥
 

 
ते रागादीन्मनसि मिलितानाशु विश्लेषयन्ति

क्रोधान्धानप्यतनुविनया न क्वचिद्द्वेषयन्ति ।

मोहध्वान्तं घनमधिमतिव्योम निःशेषयन्ति
 

त्वत्पार्श्वं ये गिरमभिमतप्राप्तये प्रेषयन्ति ॥ ३७ ॥
 

 
ते जनाः सुकृतिनो मनसि मिलितान् रागादीन् रागो विषयेष्वासक्तिः कामावेशजनिता

तदादीन् कामादीन् मनसि चित्ते आशु शीघ्रं विश्लेषयन्ति पृथक्कुर्वन्ति तथा ते जना अत-

नुविनया अतनुरनल्पो विनयो येषां तादृशाः सन्तः क्रोधान्धानपि जनान् क्वचिदपि न द्वे-

षयन्ति । तेष्वपि वैरं न कुर्वन्तीत्यर्थः । तथा ते जना अधिमतिव्योम मतिर्बुद्धिरेव व्योम
-
आकाशस्तत्र मोहोऽज्ञानमेव ध्वान्तमाच्छादकं निःशेषयन्ति । समग्रमेव निवारयन्तीत्यर्थः ।

ते के । हे विभो, ये धन्या गिरं स्वामभिमतप्राप्तये ईप्सितलाभाय त्वत्पार्श्वं त्वत्समीपं

प्रेषयन्ति ॥
 
Digitized by Google