This page has not been fully proofread.

४३६
 
काव्यमाला ।
 
तेषां सूक्तीरमलमतयः पूगवञ्चर्वयन्ति
क्रूराणां ते मदमभिमुखं प्रेशितं खर्वयन्ति ।
तान्विद्वांसस्तव नवसुधाखादनायाह्वयन्ति
 
त्वत्पादाग्रे मुदितमनसो ये शिरः प्रह्वयन्ति ॥ ३५ ॥
 
अमलमतयो विशुद्धधियस्तेषां जनानां सूक्तीः प्रौढोक्तीः पूगवत् पूगफलवत् चर्वयन्त्या
स्वादयन्ति । तथा ते जनाः क्रूराणामुद्वृत्तानामभिमुखं प्रेसितं भ्राम्यन्तं मदं गर्वे खर्वयन्ति
इस्वयन्ति । तथा तान् जनान् तव विभोर्नवः स्तव एव सुधा तस्यास्वादनाय विद्वांसो वि-
बुधा आह्वयन्त्याकारयन्ति । ते क इत्याह – हे विभो, ये धन्या मुदितमनसः सन्तस्त्वच्च-
रणाप्रे शिरः स्वकीयं प्रयन्ति नमयन्ति ॥
 
ते दुर्वृत्तानपि न कृपया पेशलाः क्लेशयन्ति
 
ग्लानिं ज्ञानां व्यसनजनितामाशये नाशयन्ति ।
तृष्णार्तानप्यमृतमधुराः वा गिरः प्राशयन्ति
 
त्वामन्तर्ये शकलितकलिक्लेशमावेशयन्ति ॥ २६ ॥
 
ते जनाः कृपया पेशला आर्द्रमनसः सन्तो दुर्वृत्तानपि न क्लेशयन्ति । तथा व्यसनेन
विपदुत्थेन जनितां ग्लानिं ज्ञानां विदुषामाशये मनसि नाशयन्ति । तृष्णया श्रवणेच्छया
आर्तास्तानपि अमृतमधुरा रसायनरससदृशी: स्वा गिरः प्रौढोक्ती: प्राशयन्ति भोज-
यन्ति । ये जनाः शकलितस्तुरीययुगस्य क्लेशो येन तादृशं त्वामन्तर्मनसि आवेशयन्ति
प्रवेशयन्ति ॥
 
ते रागादीन्मनसि मिलितानाशु विश्लेषयन्ति
क्रोधान्धानप्यतनुविनया न क्वचिद्वेषयन्ति ।
मोहध्वान्तं घनमधिमतिव्योम निःशेषयन्ति
 
त्वत्पार्श्व ये गिरमभिमतप्राप्तये प्रेषयन्ति ॥ ३७ ॥
 
ते जनाः सुकृतिनो मनसि मिलितान् रागादीन् रागो विषयेष्वासक्तिः कामावेशजनिता
तदादीन् कामादीन् मनसि चित्ते आशु शीघ्रं विश्लेषयन्ति पृथक्कुर्वन्ति तथा ते जना अत-
नुविनया अतनुरनल्पो विनयो येषां तादृशाः सन्तः क्रोधान्धानपि जनान् क्वचिदपि न द्वे-
षयन्ति । तेष्वपि वैरं न कुर्वन्तीत्यर्थः । तथा ते जना अधिमतिव्योम मतिर्बुद्धिरेव व्योम
आकाशस्तत्र मोहोऽज्ञानमेव ध्वान्तमाच्छादकं निःशेषयन्ति । समग्रमेव निवारयन्तीत्यर्थः ।
ते के । हे विभो, ये धन्या गिरं स्वामभिमतप्राप्तये ईप्सितलाभाय त्वत्पार्श्व त्वत्समीपं
प्रेषयन्ति ॥
 
Digitized by Google