This page has been fully proofread once and needs a second look.

स्तुतिकुसुमाञ्जलिः ।
 
आत्मानं ते कलुषकलिले मग्नमुच्चालयन्ति

ज्ञानाम्भोभिर्मलमलिकुलश्यामलं क्षालयन्ति ।

स्मृत्वा च त्वां प्रमदरभसादंसमास्फालयन्ति
 

त्वद्भक्त्या ये सकलमलसं चित्तमुत्तालयन्ति ॥ ३२ ॥
 
३६ स्तोत्रम्]
 

 
ते जनाः कलुषकलिले कलुषं पातकमेव कलिलं कर्दमस्तत्र मग्नमात्मानमुच्चालयन्ति

उद्धरन्ति । तथा अलिकुलवत् श्यामलं मलं त्रिविधमाणवमायीयकार्मेमं पापं च ज्ञानमे-

वाम्भ॑भासि तैः क्षालयन्ति निर्मलीकुर्वन्ति । तथा ते विभुं त्वां स्मृत्वा प्रमदेन हर्षेण रभस

औत्सुक्यं तस्मादंसं स्वकीयं स्फालयन्ति । ते के। हे भगवन् सकलं सर्वप्रकारैरलसं

शंभुभक्तिमार्गे मन्दगति चित्तं त्वद्भक्त्या उत्तालयन्ति उत्तालगामि कुर्वन्ति । 'अमलं'

इति क्वंचित्पाठः ॥
 
>
 

 
ते रामाणां मनसि मदनं सुप्तमुन्निद्रयन्ति
 

श्
लाघां लब्धं सदसि च सतां चित्त[^१]मुन्मुद्रयन्ति ।

तानुद्वृत्ताः कुटिलमतयो न क्वचिच्छिद्रयन्ति
 
त्वच्

त्वञ्
चित्तं ये वरद करुणाक्रन्दितैरार्द्रयन्ति ॥ ३३ ॥
 

 
ते जना रामाणां वरस्त्रीणां मनसि सुप्तं मदनं काममुन्निद्रयन्ति प्रबुद्धं संपादयन्ति ।

तथा ते सदसि सभायां श्लाघां स्तुतिं लब्धं सतां धीमतां चित्तं मन उन्मुद्रयन्ति विगत
-
मौनमुद्रं कुर्वन्ति । तथा उद्वृत्ताः क्रूराः कुटिलमतयश्च धूर्ताः पुमांसस्तान् क्वचिन्न च्छिद्र
-
यन्ति । तान् कानित्याह– हे वरद शंभो, करुणाक्रन्दितैर्दीनप्रलापैर्ये त्वां विभुमार्द्रयन्ति

कृपार्द्रचेतसं कुर्वन्ति ॥
 

 
ते सम्यानां सदसि नयनान्यश्रु विस्रावयन्ति

क्रोधोत्कर्षं गुरुमुरुरुषां दूरमुत्प्रावयन्ति ।

चेतः सूक्तैर्मणिमिव सतामैन्दवं द्रावयन्ति
 

स्वामिन्ये त्वामभि नवनवव्याहृतीः श्रावयन्ति ॥ ३४ ॥
 

 
ते जनाः सदसि सभायां सभिकानां नयनानि नेत्राणि अश्रु आनन्दाश्रु विस्रावयन्ति ।

तथा ते जना उरू रुडूड् येषां ते उरुरुषो मत्सरिणस्तेषां गुरुं महान्तं क्रोधोत्कर्षेषं उत्प्रावयन्ति

दूरीकुर्वन्ति । तथा ते जनाः सूक्तैः स्तुतिवाक्यैरैन्दवं मणिं चन्द्रकान्तरत्नमिव द्रावयन्त्या-
द्रीं

र्द्री
कुर्वन्ति । ये जनास्त्वां नूतनस्तवानां व्याहृतीर्व्याहरणानि श्रावयन्ति । 'व्याकृती:'

इति क्वचित्पाठः ॥
 

 
[^
]. 'वक्त्रं' ख.
 
Digitized by Google