This page has not been fully proofread.

३०
 
काव्यमाला ।
 
'याभ्यामर्धविबोधमुग्धमधुर श्रीरर्घनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नी-
कृतः' इति ॥
कालं दृशैव शमयन्सफलप्रयासं
 
यः श्वेतमुत्तमचमत्कृतिकृञ्चकार ।
श्वेतं यशः प्रशमयन्नसतां सतां च
 
कालं कृतार्थयति यः स शिवोऽवताद्वः ॥ १९ ॥
कालमिति । श्रीशिवो वः कर्मभूतानवतात् । स क इत्याह - उत्तमा अतिशयिता
चासौ चमत्कृतिस्तां करोतीति तादृशो यो विभुः दृशैव कालं कृतान्तं शमयन् श्वेतं
श्वेतनामानं नृपं सफलप्रयासं कालात्करालादभयप्राध्या सफलयत्नं चकार । अत्र च
वृत्ते पूर्वार्धोक्तार्थादुत्तरार्धे विपरीतार्थकरणात् विभोः स्वतन्त्रस्योत्तमचमत्कारकारित्वम् ।
तदेवाह — श्वेतं यश इत्यादि । असतां दुष्टचित्तानां श्वेतं धवलं यशः प्रकर्षेण शमयन्न-
त्यन्तं दूरीकुर्वन् यः सतां भक्तिरसामृतसिक्तचेतसां च कालं समयं कृतार्थयति । सर्व-
लोकप्रशस्यं संपादयतीत्यर्थः । अत्र पूर्वार्धे कालशान्त्या श्वेतानुग्रहः । उत्तरार्धे
श्वेतशान्त्या कालकृतार्थीकरणमिति प्रभोः स्वातन्त्र्येणोत्तमचमत्कारकृत्त्व मित्यर्थः ॥
बभ्रुर्बिमर्त्यलिकपावकसौहृदं यो
 
यत्राहिरेति शिखिना सह सामरस्यम् ।
जूटः स वः सममरातिभिरप्यम -
 
मुक्तां स्थितिं प्रथयतु प्रमथाधिपस्य ॥ २० ॥
बभ्रुरिति । प्रमथाधिपस्य प्रमथानां गणानां नन्दिमहाकालादीनामधिपः शंभुस्तस्य
जूटो जटाजूट: कपर्दः अरातिभिः शत्रुभिः समं सार्धमप्यमर्षेण रोषेण रहितां स्थिति
वः प्रथयतु विस्तारयतु । स क इत्याह – बभ्रुरित्यादि । यो जूट: अलिकपावकसौहृदम् ।
अलिके ललाटे । 'ललाटमलिकं गोधिः' इत्यमरः । तत्र यः पावको नेत्राभिस्तेन सह
सौहृदं प्रीतिमतिसमीपस्थत्वं बिभर्ति धारयति । यः किंभूतः । बभ्रुः कपिलः । 'बभ्रुर्वि-
शाले नकुले कृशानावजे मुनौ शूलिनि पिङ्गले च' इति विश्वः । अथ च यो बभ्रुर्नकुलो
बिलेशयप्राणिविशेषः स कथमन्निना सह प्रीति करोतीति विरोधाभासः । तदन्यार्थत्वे तु
विरोधपरिहारः । पुनरपि स कः । यत्र अहिर्वासुक्याख्यो नागविशेषः कण्ठोपवी-
तीभूतः सामरस्यं परस्परसमरसतां प्रीत्यतिशयं शिखिना अग्निना, अथ च कुमारवाहनेन
मयूरेण, सह अत्यन्तासनत्वाद्धत्ते । मयूरस्य भुजंगभुक्त्वादत्रापि विरोधाभासः ॥
अव्यात्स वः शिरसि यस्य विलोचनाग्नि-
ज्वालावलीढसुरसिन्धुजलोपगूढः
 

 
Digitized by Google