This page has been fully proofread once and needs a second look.

४३४.
 
काव्यमाला ।
 
ते जनाः कृपैवाम्बु तेन तृषिते हृदि स्वकीये त्वां विभुं वर्षयन्ति वर्षं कुर्वन्ति । वर्ष-

णमिव कुर्वन्तीत्यर्थः । अथ ते जनाः स्वान्तं मन एव ओको गृहं तस्मात् अघभुजगान्पा-

तकान्येव सर्पास्तान्कर्षयन्ति दूरीकुर्वन्ति । स्वान्तौकस इति पश्चमी । तथा ते जना

श्रुवि स्वस्या॑ क॒म्पं विधाय । भ्रूसंज्ञयैवेत्यर्थः । यममन्तकं धर्षयन्ति तिरस्कुर्वन्ति । हैहे हर

विभो, ये धन्यास्त्वां त्रिविभुं निजैः स्वकीयैर्नुतिपदैर्हर्षयन्त्यानन्दयन्ति ॥

 
ते मौनमुद्रितगिरोऽप्युपहासयन्ति

गीर्भिर्मुखानि सुधियामधिवासयन्ति ।

विश्वं यशोभिरमलैरपि भासयन्ति
 

ये मानसं तव नवैः प्रविकासयन्ति ॥ २९ ॥
 

 
ते जना मौनेन तूष्णींभावेन मुद्रितगिरोऽपि मौनधनानपि जनान् गीर्भिरतिहर्षप्रदा-

भिरुपहासयन्ति सोपहासान्कुर्वन्ति । तथा ताभिर्गीर्भिरेव सुधियां विबुधानां मुखानि अ-

धिवासयन्ति परिमलयन्ति । तथा अमलैर्निर्मलैः स्वयशोभिर्विश्वं भासयन्ति प्रकाशयन्ति ।

ये धन्या नवैः स्तवैस्तव मानसं चित्तं प्रविकासयन्ति प्रहृष्टं कुर्वन्ति ॥

 
ते चित्तमिभित्तिमसतामपि चित्रयन्ति

रोषोद्धतानरिजनानपि मित्रयन्ति ।

सूक्तामृतैश्च भुवमेव पवित्रयन्ति
 

वाडाङ्नावि ये तव चरित्रमरित्रयन्ति ॥ ३० ॥
 

 
………………………………………………………
। रोषेणोद्धतानुद्भ-

टानप्यरिजनान् मित्रयन्ति । सखीनिव संपादयन्तीत्यर्थः । तथा ते सूक्तान्येवामृतानि तें-

र्भुवं पृथ्वीमेव पवित्रयन्ति । ये धन्यास्तव चरित्रं त्रिपुरदाहाद्यपदानकर्म अरित्रयन्ति अ-

रित्रं संपादयन्ति । कस्याम् । वाङ्गानावि वागेव नौस्तरणिस्तस्याम् । यथा नावि अरित्रं सं-

चार्यते तथा त्वञ्चरित्रं वाचीत्यर्थः । अरित्रं च पारोत्तारकम् । 'अरित्रं केनिपातनम्'

इत्यमरः ॥
 

 
चेतांसि ते सुकृतिनामुपबृंहयन्ति

बाह्यान्तरानसुहृदश्च निबर्हयन्ति ।

नात्मानमानतमरीनपि गर्हयन्ति
 

ये त्वां नवस्तवविभूतिभिरर्हयन्ति ॥ ३१ ॥
 

 
ते जनाः सुकृतिनां जनानां चेतांस्युपबृंहयन्ति प्रहृष्टानि कुर्वन्ति । तथा बाह्यांन्तरान्

बाह्या आन्तराञ्श्च षट् कामक्रोधादयश्च तानसुहृदो रिपन् निबर्हयन्ति घातयन्ति । ते जना

अरीन् शत्रूनपि आत्मानं तत्संबन्धिनं न गर्हयन्ति न संपादयन्ति (?) । किंभूतम् । आनतमपि ।

ते के। हे विभो, ये त्वां नवस्तवविभूतिभिः नवा नूतना ये स्तवास्तेषां विभूतिभिरर्हयन्ति ॥
 
Digitized by Google