2023-02-23 21:28:13 by ambuda-bot
This page has not been fully proofread.
४३४.
काव्यमाला ।
ते जनाः कृपैवाम्बु तेन तृषिते हृदि स्वकीये त्वां विभुं वर्षयन्ति वर्ष कुर्वन्ति । वर्ष-
णमिव कुर्वन्तीत्यर्थः । अथ ते जनाः स्वान्तं मन एव ओको गृहं तस्मात् अघभुजगान्पा-
तकान्येव सर्पास्तान्कर्षयन्ति दूरीकुर्वन्ति । स्वान्तौकस इति पश्चमी । तथा ते जना
श्रुवि स्वस्या॑ क॒म्पं विधाय । भ्रूसंज्ञयैवेत्यर्थः । यममन्तकं धर्षयन्ति तिरस्कुर्वन्ति । है हर
विभो, ये धन्यास्त्वां त्रिभुं निजैः स्वकीयैर्नुतिपदैर्हर्षयन्त्यानन्दयन्ति ॥
ते मौनमुद्रितगिरोऽप्युपहासयन्ति
गीर्भिर्मुखानि सुधियामधिवासयन्ति ।
विश्वं यशोभिरमलैरपि भासयन्ति
ये मानसं तव नवैः प्रविकासयन्ति ॥ २९ ॥
ते जना मौनेन तूष्णींभावेन मुद्रितगिरोऽपि मौनधनानपि जनान् गीर्भिरतिहर्षप्रदा-
भिरुपहासयन्ति सोपहासान्कुर्वन्ति । तथा ताभिर्गीभिरेव सुधियां विबुधानां मुखानि अ-
धिवासयन्ति परिमलयन्ति । तथा अमलैनिर्मलैः स्वयशोभिर्विश्वं भासयन्ति प्रकाशयन्ति ।
ये धन्या नवैः स्तवैस्तव मानसं चित्तं प्रविकासयन्ति प्रहृष्टं कुर्वन्ति ॥
ते चित्तमित्तिमसतामपि चित्रयन्ति
रोषोद्धतानरिजनानपि मित्रयन्ति ।
सूक्तामृतैश्च भुवमेव पवित्रयन्ति
वाडावि ये तव चरित्रमरित्रयन्ति ॥ ३० ॥
। रोषेणोद्धतानुद्भ-
टानप्यरिजनान् मित्रयन्ति । सखीनिव संपादयन्तीत्यर्थः । तथा ते सूक्तान्येवामृतानि तें-
र्भुवं पृथ्वीमेव पवित्रयन्ति । ये धन्यास्तव चरित्रं त्रिपुरदाहायपदानकर्म अरित्रयन्ति अ-
रित्रं संपादयन्ति । कस्याम् । वाङ्गावि वागेव नौस्तरणिस्तस्याम् । यथा नावि अरित्रं सं-
चार्यते तथा त्वञ्चरित्रं वाचीत्यर्थः । अरित्रं च पारोत्तारकम् । 'अरित्रं केनिपातनम्'
इत्यमरः ॥
चेतांसि ते सुकृतिनामुपबृंहयन्ति
बाह्यान्तरानसुहृदश्च निबर्हयन्ति ।
नात्मानमानतमरीनपि गर्हयन्ति
ये त्वां नवस्तवविभूतिभिरर्हयन्ति ॥ ३१ ॥
ते जनाः सुकृतिनां जनानां चेतांस्युपबृंहयन्ति प्रहृष्टानि कुर्वन्ति । तथा बाह्यांन्तरान्
बाह्या आन्तराञ्च षट् कामक्रोधादयश्च तानसुहृदो रिपन् निबर्हयन्ति घातयन्ति । ते जना
अरीन् शत्रूनपि आत्मानं तत्संबन्धिनं न गर्हयन्ति न संपादयन्ति (?) । किंभूतम् । आनतमपि ।
ते के। हे विभो, ये त्वां नवस्तवविभूतिभिः नवा नूतना ये स्तवास्तेषां विभूतिभिरर्हयन्ति ॥
Digitized by Google