This page has been fully proofread once and needs a second look.

३६ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
ते पीवरीं विपदमोकसि कर्शयन्ति
 

स्वं कौशलं सुमनसश्च विमर्शयन्ति ।

प्रीति सतां च हृदयेषु निवेशयन्ति
 

ये त्वत्स्तुतीर्विबुधसद्मसु दर्शयन्ति ॥ २९ ॥
 

 
ते जना ओकसि गृहे स्थितां विपदं बाह्यां कर्शयन्ति कृशां कुर्वन्ति । दूरीकुर्वन्ती-

त्यर्थः । तथा ते जनाः सुमनसः पण्डितान् स्वं कौशलं प्रौढोक्तिरूपं विमर्शयन्ति । तथा

ते जनाः सतां सहृदयानां च प्रीतिं निवेशयन्ति । ते क इत्याह – हे विभो, ये तव विभोः

स्तुतीर्विबुधसद्मसु पण्डितगृहेषु दर्शयन्ति ॥
 

 
ते निर्मलं सुकृतमात्मनि पोषयन्ति

दुष्कर्मकर्दममलं हृदि शोषयन्ति ।

क्रूरान्विरोधविधुरानपि तोषयन्ति
 

ये नाम ते शिवशिवेत्यभिघोषयन्ति ॥ २६ ॥
 
४३३
 

 
ते जना निर्मलं पुण्यमात्मनि पोषयन्ति । तथा ते जना दुष्कर्म दुरितमेव कर्दमं पङ्क

हृदि मनस्यलमत्यर्थेथं शोषयन्ति । तथा ते विरोधेन विधुरा विरुद्धास्तादृशानपि क्रूरान् तो-

षयन्ति प्रसन्नीकुर्वन्ति । ते क इत्याह - हे विभो, ये धन्यास्ते तव विभोः शिवशिवेति

नाम उद्घोषयन्त्युच्चारयन्ति ॥
 

 
ते विश्वमेव चरितैरभिभूषयन्ति

क्रुद्धान्विरुद्धहृदयांश्च न दूषयन्ति ।

नात्युद्धटान्यमभटान्यमभटानपि रोषयन्ति
 

रागेण ये शिव मनस्तव तोषयन्ति ॥ २७ ॥
 

 
ते जनाश्चरितैश्चरित्रैर्विश्वमेव सर्वेवं जगदेवाभिभूषयन्ति । तथा ते क्रुद्धान् विरुद्धहृदयांश्

जनान् न दूषयन्ति । तथा तेऽत्युद्भटानत्युत्कटान्यमभटांश्च न रोषयन्ति न समत्सरयन्ति ।

ये जना रागेण त्वद्भक्तिरसेन रागेण रागालापेन वा तव मनस्तोषयन्ति । 'गीतवादेन शं-

करः' इत्युक्तेः ॥
 

 
ते त्वां कृपाम्बुतृषिते हृदि वर्षयन्ति

स्वान्तौकसोऽघभुजगानपि कर्षयन्ति ।

कम्पं विधाय च यमं भुभ्रुवि धर्षयन्ति
 

ये त्वां [^१]निजैर्नुतिपदैर्हर हर्षयन्ति ॥ २८ ॥
 

 
[^
]. 'नवैः' ख.
 
Digitized by Google