This page has not been fully proofread.

३६ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
ते पीवरीं विपदमोकसि कर्शयन्ति
 
स्वं कौशलं सुमनसश्च विमर्शयन्ति ।
प्रीति सतां च हृदयेषु निवेशयन्ति
 
ये त्वत्स्तुतीर्विबुधसद्मसु दर्शयन्ति ॥ २९ ॥
 
ते जना ओकसि गृहे स्थितां विपदं बाह्यां कर्शयन्ति कृशां कुर्वन्ति । दूरीकुर्वन्ती-
त्यर्थः । तथा ते जनाः सुमनसः पण्डितान् स्वं कौशलं प्रौढोक्तिरूपं विमर्शयन्ति । तथा
ते जनाः सतां सहृदयानां च प्रीतिं निवेशयन्ति । ते क इत्याह – हे विभो, ये तव विभोः
स्तुतीविबुधसद्मसु पण्डितगृहेषु दर्शयन्ति ॥
 
ते निर्मलं सुकृतमात्मनि पोषयन्ति
दुष्कर्मकर्दममलं हृदि शोषयन्ति ।
क्रूरान्विरोधविधुरानपि तोषयन्ति
 
ये नाम ते शिवशिवेत्यभिघोषयन्ति ॥ २६ ॥
 
४३३
 
ते जना निर्मलं पुण्यमात्मनि पोषयन्ति । तथा ते जना दुष्कर्म दुरितमेव कर्दमं पङ्क
हृदि मनस्यलमत्यर्थे शोषयन्ति । तथा ते विरोधेन विधुरा विरुद्धास्तादृशानपि क्रूरान् तो-
षयन्ति प्रसन्नीकुर्वन्ति । ते क इत्याह - हे विभो, ये धन्यास्ते तव विभोः शिवशिवेति
नाम उद्घोषयन्त्युच्चारयन्ति ॥
 
ते विश्वमेव चरितैरभिभूषयन्ति
क्रुद्धान्विरुद्धहृदयांश्च न दूषयन्ति ।
नात्युद्धटान्यमभटानपि रोषयन्ति
 
रागेण ये शिव मनस्तव तोषयन्ति ॥ २७ ॥
 
ते जनाश्चरितैश्चरित्रैर्विश्वमेव सर्वे जगदेवाभिभूषयन्ति । तथा ते क्रुद्धान् विरुद्धहृदयांच
जनान् न दूषयन्ति । तथा तेऽत्युद्भटानत्युत्कटान्यमभटांश्च न रोषयन्ति न समत्सरयन्ति ।
ये जना रागेण वद्भक्तिरसेन रागेण रागालापेन वा तव मनस्तोषयन्ति । 'गीतवादेन शं-
करः' इत्युक्तेः ॥
 
ते त्वां कृपाम्बुतृषिते हृदि वर्षयन्ति
स्वान्तौकसोऽघभुजगानपि कर्षयन्ति ।
कम्पं विधाय च यमं भुवि धर्षयन्ति
 
ये त्वां निजैर्नुतिपदैर्हर हर्षयन्ति ॥ २८ ॥
 
१. 'नवैः' ख.
 
Digitized by Google