This page has been fully proofread once and needs a second look.

४३२
 
काव्यमाला ।
 
वंशत्रयीमपि निजामभिशोभयन्ति
 

ये त्वां निजासु नुतिसूक्तिषु लोभयन्ति ॥ २१ ॥
 

 
ते जना अप्रतिहतां शक्तिं जृम्भयन्त्युक्ल्लासयन्ति । तथा ते जनाः कृतमतीनपि कृति-

नोऽपि परामुत्कृष्टां प्रीतिमुपलम्भयन्ति उपलभमानान्संपादयन्ति । तथा ते च निजां वं-

शत्रयीं स्वपितृवंशमातृवंशश्वशुरवंशरूपामभिशोभयन्ति । ये त्वां विभुं निजासु स्तुतिसूक्तिषु

स्तुतियुक्ताश्च ताः सूक्तयस्तासु लोभयन्ति सलोभं कुर्वन्ति ॥

 
ते मग्नमार्तजनमापदि तारयन्ति
 

बुद्ध्या विमृश्य सदसच्च विचारयन्ति ।

अज्ञानमानतिमतां च निवारयन्ति
 

त्वद्भक्तिमिन्दुधर ये हृदि धारयन्ति ॥ २२ ॥
 

 
ते जना
 
आपदि जन्मजरामरणत्रासापदि बाह्यायां वा मग्नमार्तजनं तारयन्ति । तथा

बुद्ध्या घिधिया विमृश्य सत् असच्च विचारयन्ति तथा ते जना आनतिमतां प्रह्लावानामज्ञानं

निवारयन्ति । हे इन्दुधर चन्द्रमौले, ये विभोस्तव भक्तितिं हृदि मनसि धारयन्ति ॥

 
ते विद्विषः स्थिररुषोऽप्यनुकूलयन्ति

मोहं महीरुहमिव प्रविमूलयन्ति ।

आज्ञां च मूर्ध्नि महतामवचूलयन्ति
 

ये भालमविङ्घ्रिरजसा तव धूलयन्ति ॥ २३ ॥
 

 
ते जनाः स्थिररुषो दृढरोषानपि विद्विषः शत्रूननुकूलयन्ति स्निग्धान् कुर्वन्ति । तथा

ते मोहमज्ञानं महीरुहं वृक्षमिव प्रकर्षेण विमूलयन्ति उत्साद ( त्पाट) यन्ति । तथा ते जना

आज्ञां निजां च महतां महाजनानां मूर्ध्नि शिरसि अवचूलयन्ति अवचूलं शिरोभूषणं

कुर्वन्ति । हे विभो, ये भालं स्वललाटं तवान्जिङ्घ्रिरजसा पादारविन्दधूल्या धूलयन्ति अनु-

लिम्पन्ति ॥
 

 
ते पङ्कमङ्कगतमात्मनि धावयन्ति
 

दिब्यङ्मण्डलं च परितः परिपावयन्ति ।

क्लेशान्क्षणात्तृणगणानिव लावयन्ति
 

ये त्वां प्रकाशवपुषं हृदि भावयन्ति ॥ २४ ॥
 

 
ते जना आत्मनि स्वदेहे अङ्कगतं मध्यगतं पङ्कं धावयन्ति क्षालयन्ति । तथा ते दिशां

मण्डलं च परितः समन्तात् परिपावयन्ति परिपूतं कुर्वन्ति । तथा ते जनाः क्लेशान्पश्ञ्

अविद्यास्मितारागद्वेषाभिनिवेशान् तृणगणानिव क्षणाल्लावयन्ति च्छिन्दन्ति । 'लूञ् छेदने'

धातुः । ते के । ये धन्याः प्रकाशवपुषं परप्रकाशरूपं त्वां विभुं हृदि मनसि भावयन्ति
5।

ध्यायन्ति ॥
 
Digitized by Google