This page has not been fully proofread.

४३२
 
काव्यमाला ।
 
वंशत्रयीमपि निजामभिशोभयन्ति
 
ये त्वां निजासु नुतिसूक्तिषु लोभयन्ति ॥ २१ ॥
 
ते जना अप्रतिहतां शक्तिं जृम्भयन्त्युक्लासयन्ति । तथा ते जनाः कृतमतीनपि कृति-
नोऽपि परामुत्कृष्टां प्रीतिमुपलम्भयन्ति उपलभमानान्संपादयन्ति । तथा ते च निजां वं-
शत्रयीं स्वपितृवंशमातृवंशश्वशुरवंशरूपामभिशोभयन्ति । ये त्वां विभुं निजासु स्तुतिसूक्तिषु
स्तुतियुक्ताश्च ताः सूक्तयस्तासु लोभयन्ति सलोभं कुर्वन्ति ॥
ते मग्नमार्तजनमापदि तारयन्ति
 
बुद्ध्या विमृश्य सदसच्च विचारयन्ति ।
अज्ञानमानतिमतां च निवारयन्ति
 
त्वद्भक्तिमिन्दुधर ये हृदि धारयन्ति ॥ २२ ॥
 
ते जना
 
आपदि जन्मजरामरणत्रासापदि बाह्यायां वा मनमार्तजनं तारयन्ति । तथा
बुद्ध्या घिया विमृश्य सत् असच्च विचारयन्ति तथा ते जना आनतिमतां प्रह्लानामज्ञानं
निवारयन्ति । हे इन्दुधर चन्द्रमौले, ये विभोस्तव भक्ति हृदि मनसि धारयन्ति ॥
ते विद्विषः स्थिररुषोऽप्यनुकूलयन्ति
मोहं महीरुहमिव प्रविमूलयन्ति ।
आज्ञां च मूर्ध्नि महतामवचूलयन्ति
 
ये भालमविरजसा तव धूलयन्ति ॥ २३ ॥
 
ते जनाः स्थिररुषो दृढरोषानपि विद्विषः शत्रूननुकूलयन्ति स्निग्धान् कुर्वन्ति । तथा
ते मोहमज्ञानं महीरुहं वृक्षमिव प्रकर्षेण विमूलयन्ति उत्साद ( पाट) यन्ति । तथा ते जना
आज्ञां निजां च महतां महाजनानां मूर्ध्नि शिरसि अवचूलयन्ति अवचूलं शिरोभूषणं
कुर्वन्ति । हे विभो, ये भालं स्वललाटं तवान्जिरजसा पादारविन्दधूल्या धूलयन्ति अनु-
लिम्पन्ति ॥
 
ते पङ्कमङ्कगतमात्मनि धावयन्ति
 
दिब्यण्डलं च परितः परिपावयन्ति ।
क्लेशान्क्षणात्तृणगणानिव लावयन्ति
 
ये त्वां प्रकाशवपुषं हृदि भावयन्ति ॥ २४ ॥
 
ते जना आत्मनि स्वदेहे अङ्कगतं मध्यगतं पङ्कं धावयन्ति क्षालयन्ति । तथा ते दिशां
मण्डलं च परितः समन्तात् परिपावयन्ति परिपूतं कुर्वन्ति । तथा ते जनाः क्लेशान्पश्च
अविद्यास्मितारागद्वेषाभिनिवेशान् तृणगणानिव क्षणाल्लावयन्ति च्छिन्दन्ति । 'लूञ् छेदने'
धातुः । ते के । ये धन्याः प्रकाशवपुषं परप्रकाशरूपं त्वां विभुं हृदि मनसि भावयन्ति
5।
ध्यायन्ति ॥
 
Digitized by Google