This page has been fully proofread once and needs a second look.

३६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
४३१
 
भवमरुभ्रमणजक्लेशापद्वा तां हापयन्ति त्याजयन्ति । ते के। हे ईश्वर जगदीश, ये धन्यास्त्वां

स्तवोक्तिभिः प्रसाद्य दृशं दृष्टिं दापयन्ति । स्वमुद्दिश्येत्यर्थः ॥

 
ते दुर्मदं शमनमुग्रमदर्पयन्ति

गर्भेधं च साधुसदनादपसर्पयन्ति ।

दानादिनार्थिनिवहानपि तर्पयन्ति
 

ये तावके मुकुटमतिङ्घ्रिलेऽर्पयन्ति ॥ १८ ॥
 

 
ते जना दुर्मदमुग्रं शमनमन्तकमदर्पयन्ति अदर्पं कुर्वन्ति । तथा ते जनाः साधुसदना-

त्साधूनां सज्जनानां गृहाद्गर्घेधं धनादिस्पृहामपसर्पयन्ति निवारयन्ति । तेषां विपदं दूरीकु-

र्वन्तीत्यर्थः । 'गृधु अभिकाङ्क्षायां' धातुः । तथा दानादिना हेतुना अर्थिनिवहानपि याच-

कगणानपि तर्पयन्ति । हे विभो, ये धन्यास्तावकेऽतिङ्घ्रितले त्वत्पादाब्जरजसि मुकुटं मौलिं

स्वमर्पयन्ति वितरन्ति ॥
 

 
ते सद्गृहेषु गुरुमापदमल्पयन्ति
 

स्वं चाशयं शिशयिषोस्तव तल्पयन्ति ।

आर्तिस्पृशामुपकृतीरपि कल्पयन्ति
 

ये बालकानपि नवं तव जल्पयन्ति ॥ १९ ॥
 

 
ते जनाः सतां विदुषां गृहेषु गुरुमप्यापदमल्पयन्ति अल्पां कुर्वन्ति । तथा ते जनाः

शिशयिषोः कृपया शयितुमिच्छतस्तव स्वमाशयं मनस्तल्पयन्ति तल्पं संपादयन्ति । तथा ते

जना आर्तिस्पृशामत्यार्तानामुपकृतीरुपकारानपि कल्पयन्ति कुर्वन्ति । ये जना धन्यास्तव

विभोर्नवं स्तवं बालकानपि जल्पयन्ति पाठयन्ति ॥
 

 
ते सापराधमनसोऽपि न कोपयन्ति
 

तापं हिह्रिया विपुलमापदि गोपयन्ति ।

त्वद्धाम चामलमतीनपि रोपयन्ति
 

ये नार्चनं तव कदाचन लोपयन्ति ॥ २० ॥
 

 
ते जनाः सापराधचित्तानपि नैव कोपयन्ति । तथा तापमतिसंतापमपि कुतोऽपि का

रणात्परिणतं विपुलं घनमप्यापदि ह्रिया लज्जया गोपयन्ति न प्रकटीकुर्वन्ति । 'शोष-

यन्ति' इति पाठः । तथा ते जना अमलमतीन्धौताशयाञ्जनान् त्वद्धाम त्वदीयं परमं धाम

अधिरोपयन्ति । ते के । ये कदाचन जातु न त्वत्पूजनं लोपयन्ति ॥
 

 
ते शक्तिमप्रतिहतां भुवि जृम्भयन्ति
 

प्रीतिं परां कृतमतीनुपलम्भयन्ति ।
 
Digitized by Google