This page has been fully proofread once and needs a second look.

४३०
 
काव्यमाला ।
 
ये त्वां नवैरभिनवैरभिराधयन्ति
 

यानिक्षुसारमधुरान्सुधियो धयन्ति ॥ १४ ॥
 

 
ते जनाः भुक्तिमुक्तिरेव सफला ऋद्धिः संपत्तिर्यस्मिमिंस्तत् तादृशं सत्कर्म शुभकर्म वि
-
शेषेण वर्धयन्ति । तथा ते शमिता दूरीकृता आधयो मनःपीडा येन तत्तादृशं च शर्म क

ल्याणं साधयन्ति । ते के इत्याह - ये त्वामिति । ये धन्या अभिनवैर्नूतनैर्नवैः स्तवैस्त्वां

विभुममिभिराधयन्ति आराधयन्ति । तैर्नवैः कैरित्याह– सुधियः सचेतस इसुक्षुसारवन्मधुरा
 

न्यान्धयन्ति पिबन्ति आस्वादयन्ति ॥
 

 
ते संगरे गुरुरुषोऽपि न योधयन्ति

ज्ञानामृतेन हृदयं च विशोधयन्ति ।

रोषोद्भवं हृदि रिपोरपि रोधयन्ति
 

ये त्वां निजा नुतिकथाः प्रतिबोधयन्ति ॥ १९ ॥
 

 
ते जना गुर्वी रुड् येषां तानपि संगरे रणे न योधयन्ति । संयतचित्तत्वात् । तथा ते

जना ज्ञानमेवामृतं रसायनं तेन हृदयं मनश्च विशेषेण शोधयन्ति । तथा ते रिपोरपि वधो-

द्
युक्तस्यापि रोषोद्भवं रोधयन्ति । हे विभो, ये जनास्त्वां विभुं नुतिकथाः स्तुतिकथाः

प्रतिबोधयन्ति ॥
 

 
ते दुर्मदान्बुधसदस्यवमानयन्ति

प्रौढान्प्रणम्य विनयेन च मानयन्ति ।
 

तान्भूतयः स्वयमनन्यसमानयन्ति
 

ये वासरांस्तव नवैः सशमा नयन्ति ॥ १६ ॥
 

 
ते जना बुधसदसि पण्डितमण्डल्यां दुर्मदानपि पण्डितंमन्यानपि अवमानयन्ति । तथा

ते च प्रौढान्प्रौढोक्तिनिपुणान्प्रणम्य मानयन्ति । तथा भूतयः संपदोऽनन्यसमाननन्यसाधा-

रणांस्तान् स्वयमयन्ति गच्छन्ति । 'अय गतौ' धातुः । ते क इत्याह –ये धन्यास्तव नवैः

स्तुतिभिर्वासरान् दिनानि नयन्त्यतिवाहयन्ति । किंभूताः । सशमाः संयतचित्ताः ॥

 
ते निर्भये नतिमतः पथि यापयन्ति
 

नोत्कम्पदानपि रिपूनुपतापयन्ति ।

क्लेशापदं पशुसमानपि हापयन्ति
 

ये त्वां प्रसाद्य दृशमीश्वर दापयन्ति ॥ १७ ॥
 

 
ते जना नंतिमतः प्रणतजनान्निर्भये पाथपथि कैवल्यप्रदे श्रीशिवशासनोपदेशे यापयन्ति ग

च्छन्ति ( गमयन्ति) । तथा उत्कम्पदानुच्चैः कम्पप्रदांस्त्रासदानपि रिपून्नोपतापयन्ति । स-

शमत्वात् । तथा ते जनाः पशुसमानापि निश्चेतनानपि क्लेशा अविद्यादयः पञ्च त एवापत्
 
Digitized by Google