This page has been fully proofread once and needs a second look.

३६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
४२९
 
णावादकान्नटानपि गीतानि स्वयशोवर्णनरूपाण्यनुनाद- यन्त्यनुपाठयन्ति । ते क इत्याह –

ये धन्या भक्तितो भक्तिरसेन तव स्तुतीः प्रतिपादयन्ति ॥
 

 
ते सत्सु कर्मसु रिपूनपि चोदयन्ति
 

गीर्भिः सतां च हृदयानि विनोदयन्ति ।

तेषां शुचः क्वचन चेतसि नोदयन्ति
 

ये तावकानि चरितान्यनुमोदयन्ति ॥ ११ ॥
 

 
ते लोका भक्तिरसेन सत्सु कर्मसु श्रीशिवोपासाप्रसाध्येषु रिपूनपि वधोद्युक्तानपि

चोदयन्ति प्रेरयन्ति । शत्रुषु मित्रेषु च समदर्शित्वात् । तथा गीर्भिर्वाणीभिः सतां सहृदयानां

च मनांसि विनोदयन्ति । तथा तेषां नानां चेतसि क्वचन शुचो नोदयन्ति नोत्पद्यन्ते ।

ते के। ये जनास्तावकानि चरितानि त्रिपुरान्धकासुरदाहवधादीन्यपदानानि कविभिरन्यैर्वि-

हितानि अनुमोदयन्ति सहर्षं विविश्वञ्चन्ति ॥
 

 
ते विग्रहोग्रमनसोऽपि न खेदयन्ति
 

मोहं दृढार्गलनिभं हृदि भेदयन्ति ।

स्वं कौशलं मृदुमतीनपि वेदयन्ति
 

सूक्तानि ये तव निजानि निवेदयन्ति ॥ १२ ॥
 

 
ते जना विग्रहेण वैरणोमंग्रं कठिनं मनो येषां ते तादृशानपि न खेदयन्ति । ते च जना

येन मोहेनाज्ञानेन कठिने मनसि श्रीशिवभक्तिरसप्रवेशः कदापि न भवति तं मोहमज्ञानम-

र्गलनिभमररतुल्यं हृदि मनसि भेदयन्ति । तथा ते मृदुमतीनपि स्वं कौशलं निपुणकविक-

र्मचातुरीं वेदयन्ति ज्ञापयन्ति । ये धन्या निजानि सूक्तानि प्रौढोक्तीनि तव पुरो निवेद-

यन्ति प्रतिपादयन्ति ॥
 

 
ते भेजुषां भवति भक्तिममन्दयन्ति
 

वाग्वीरुधस्त्वयि रतितिं हृदि कन्दयन्ति ।

त्वामन्यदर्शनगतानपि वन्दयन्ति
 

ये वाग्भरण हृदयं तव नन्दयन्ति ॥ १३ ॥
 

 
ते जना भेजुषां भवाब्ध्युत्तरणोपायश्रवणायागतानां भवति त्वयि भक्तिममन्दयन्ति

अनल्पयन्ति । तथा ते जना हृदि मनसि त्वयि रतिं सक्तितिं वाग्लताया निजायाः कन्दयन्ति

कन्दं मूलं कुर्वन्ति । मूलं दृढतावहम् । तथा ते जना अन्यदर्शनगतान् कुटिलमार्गगता-

नपि वादिनो निजचातुर्यात्त्वां विभुं वन्दयन्ति मानयन्ति । ये धन्या वाग्भरेण वाक्प्रपश्ञ्चेन

तव विभोर्मनो नन्दयन्ति ॥
 

 
ते भुक्तिमुक्तिसफलर्द्धिंधि विवर्धयन्ति

सत्कर्मशर्म शमिताधि च साधयन्ति ।
 
Digitized by Google