This page has not been fully proofread.

३६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
४२९
 
णावादकान्नटानपि गीतानि स्वयशोवर्णनरूपाण्यनुनादयन्त्यनुपाठयन्ति । ते क इत्याह –
ये धन्या भक्तितो भक्तिरसेन तव स्तुतीः प्रतिपादयन्ति ॥
 
ते सत्सु कर्मसु रिपूनपि चोदयन्ति
 
गीर्भिः सतां च हृदयानि विनोदयन्ति ।
तेषां शुचः क्वचन चेतसि नोदयन्ति
 
ये तावकानि चरितान्यनुमोदयन्ति ॥ ११ ॥
 
ते लोका भक्तिरसेन सत्सु कर्मसु श्रीशिवोपासाप्रसाध्येषु रिपूनपि वधोद्युक्तानपि
चोदयन्ति प्रेरयन्ति । शत्रुषु मित्रेषु च समदर्शित्वात् । तथा गीर्भिर्वाणीभिः सतां सहृदयानां
च मनांसि विनोदयन्ति । तथा तेषां अनानां चेतसि क्वचन शुचो नोदयन्ति नोत्पद्यन्ते ।
ते के। ये जनास्तावकानि चरितानि त्रिपुरान्धकासुरदाहवधादीन्यपदानानि कविभिरन्यैर्वि-
हितानि अनुमोदयन्ति सहर्ष विविश्वन्ति ॥
 
ते विग्रहोग्रमनसोऽपि न खेदयन्ति
 
मोहं दृढार्गलनिभं हृदि भेदयन्ति ।
स्वं कौशलं मृदुमतीनपि वेदयन्ति
 
सूक्तानि ये तव निजानि निवेदयन्ति ॥ १२ ॥
 
ते जना विग्रहेण वैरणोमं कठिनं मनो येषां ते तादृशानपि न खेदयन्ति । ते च जना
येन मोहेनाज्ञानेन कठिने मनसि श्रीशिवभक्तिरसप्रवेशः कदापि न भवति तं मोहमज्ञानम-
र्गलनिभमररतुल्यं हृदि मनसि भेदयन्ति । तथा ते मृदुमतीनपि स्वं कौशलं निपुणकविक-
र्मचातुरीं वेदयन्ति ज्ञापयन्ति । ये धन्या निजानि सूक्तानि प्रौढोक्तीनि तव पुरो निवेद-
यन्ति प्रतिपादयन्ति ॥
 
ते भेजुषां भवति भक्तिममन्दयन्ति
 
वाग्वीरुधस्त्वयि रति हृदि कन्दयन्ति ।
त्वामन्यदर्शनगतानपि वन्दयन्ति
 
ये वाग्भरण हृदयं तव नन्दयन्ति ॥ १३ ॥
 
ते जना भेजुषां भवाब्ध्युत्तरणोपायश्रवणायागतानां भवति त्वयि भक्तिममन्दयन्ति
अनल्पयन्ति । तथा ते जना हृदि मनसि त्वयि रतिं सक्ति वाग्लताया निजायाः कन्दयन्ति
कन्दं मूलं कुर्वन्ति । मूलं दृढतावहम् । तथा ते जना अन्यदर्शनगतान् कुटिलमार्गगता-
नपि वादिनो निजचातुर्यात्त्वां विभुं वन्दयन्ति मानयन्ति । ये धन्या वाग्भरेण वाक्प्रपश्चेन
तव विभोर्मनो नन्दयन्ति ॥
 
ते भुक्तिमुक्तिसफलद्धिं विवर्धयन्ति
सत्कर्मशर्म शमिताधि च साधयन्ति ।
 
Digitized by Google