This page has been fully proofread once and needs a second look.

४२८
 
काव्यमाला ।
 
लोके निजानि च यशांस्युपकर्णयन्ति
 

ये धीमतां नुतिकथास्तव वर्णयन्ति ॥ ७ ॥
 

 
ते जना: पापानि पातकानि त्रिविधानि अश्मशकलानि व पाषाणखण्डानित्र चूर्ण-

यन्ति । तथा ते जनाः सुमनसां सहृदयानामपि भ्रुवो घूर्णयन्ति कम्पयन्ति । चमत्कार-

कारणात् । तथा ते जना लोके भूलोकमध्ये स्वकीयानि यशांस्युपकर्णयन्ति शृण्वन्ति ।

हे विभो, ये जना धीमतां विपश्चिताममेग्रे तव विभोर्नुतिकथा वर्णयन्ति व्याकुर्वते ॥

 
ते मारकानपि न संयति घातयन्ति

कारुण्यतः कृतरुषोऽपि न यन्ति ।
<flag></flag> यन्ति ।
लोकस्य शोकमभयेन च शातयन्ति
 

ये शेखरं चरणयोस्तव पातयन्ति ॥ ८ ॥
 

 
ते लोका मारकानपि वधोद्युक्तानपि संयति सङ्ग्रामे न घातयन्ति । शत्रौ मित्रे च

समदृष्टित्वात् । तथा ते जनाः कृतरुषोऽप्यपकारेणापि कृपया न यातयन्ति क्लेशयन्ति ।

तथा लोकस्य कुतोऽपि भयाकुलस्य शोकमभयदानेन शातयन्ति कर्तयन्ति । हे विभो,

ये जनाः शेखरं स्वकीयमौलिं तव पादयोः पातयन्ति क्षिपन्ति ॥
ते

 
ते [^१]
पापपाशमधिकं हृदि कर्तयन्ति

भोगस्पृहां च विषयेषु निवर्तयन्ति ।

सूतैः सचेतनमनांस्यपि नर्तयन्ति
 

ये चन्द्रचूड चरितं तव कीर्तयन्ति ॥ ९ ॥
 

 
ते धन्या जना अधिकं महान्तं पापपाशं पापं त्रिविधमेव पाशस्तं हृदि हृत्स्थं कर्त-

यन्ति च्छिदन्ति । तथा ते जनाः संयतचित्ताः सन्तो विषयेषु शब्दादिषु भोगस्पृहां नि-

वर्तयन्ति निवारयन्ति । तथा ते सचेतनानामपि प्राज्ञानामपि मनांसि सूक्तैः प्रौढोक्ति-

भिर्नर्तयन्ति । चमत्कारकारणात् । ते क इत्याह – हे चन्द्रचूड विभो, ये तव चरितं
 

कीर्तयन्ति ख्यापयन्ति ॥
 

 
ते जान्मिकानि दुरितान्यवसादयन्ति

सूक्तानि निर्मलमतीननुवादयन्ति ।

गीतानि वैणिकनटानपि नादयन्ति
 

ये भक्तितस्तव नुतीः प्रतिपादयन्ति ॥ १० ॥
ते

 
ते
जना जान्मिकान्यनेकजन्मार्जितानि दुरितानि पापान्यवसादयन्ति दूरीकुर्वन्ति ।

तथा ते जना निर्मलमतीन्धौताशयान्सूक्तानि निजान्यनुवादयन्ति । तथा वैणिकनटान्वी

 
[^
]. 'कर्मबन्धमधिकं' ख.
 
Digitized by Google