This page has been fully proofread once and needs a second look.

३६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
तानन्तकञ्जुकुटयोऽपि न तर्जयन्ति
 
४२७
 
ये त्वां भवामयहरं हर पूजयन्ति ॥ ४ ॥
 
हे हर पातकिनां त्रिविधपातकहर, ते सुकृतिनो जनाश्चन्द्रकिरणवद्रम्यं निर्मलं धर्म-
मर्जयन्ति । तथा ते जनाः स्वप्रौढोक्तिभिर्विदग्धानां कुशाग्रीयधिषणानामपि हृदयानि
रञ्जयन्ति । तथान्तकस्य यमस्य क्रोधोद्धुरस्य
भ्रुकुटयोऽपि न तर्जयन्ति
ये त्वां भवामयहरं हर पूजयन्ति ॥ ४ ॥
 
हे हर पातकिनां त्रिविधपातकहर, ते सुकृतिनो जनाश्चन्द्रकिरणवद्रम्यं निर्मलं धर्म-
मर्जयन्ति । तथा ते जनाः स्वप्रौढोक्तिभिर्विदग्धानां कुशाग्रीयधिषणानामपि हृदयानि
रञ्जयन्ति । तथान्तकस्य यमस्य क्रोधोद्धुरस्य भ्रुकुटयोऽपि
तान् जनान्न तर्जयन्ति त्रास-

यन्ति । भवामयहरं संसाररोगापहं ये जनास्त्वां पूजयन्ति ॥
 

 
[^१]ते
त्वत्स्तुतितिं हृदयधाम्नि कवाटयन्ति

[^२]
दुःखदुद्रुमं च दृढमापदि पाटयन्ति ।

भावं तवैव भुवि बालमिवाटयन्ति
 

ये वाङ्टीमभिमुखं तव नाटयन्ति ॥ ९ ॥
 

 
हे विभो, ते धन्या जनास्त्वदीयां स्तुतिं हृदयधाम्नि स्वकीये चित्तगृहे कवाटयन्ति

कवाटमररं तत्कुर्वन्ति । यथाररेणान्यप्रवेशो निषिध्यते तथा त्वत्स्तुतिरेव तेषामाशये नि-

वसतीत्यर्थः । तथा ते जना दुःखं भवामयजं तदेव द्रुमो महामूलस्तं दृढमपि स्थिरमप्या-

पदि जन्मजरामरणत्रासविपदि पाटयन्ति च्छिन्दन्ति । तथा ते जनास्तवैव स्वामिनो भावं

भावनारसं बालमिव शिशुमिव भुवि भूलोकेऽटयन्ति संचारयन्ति ये जनास्तव स्वामि-

नोऽभिमुखं संमुखं वाङ्नटीं वाग्वाण्येव नटी तां स्वकीयां नटयन्ति नर्तयन्ति ॥

 
ते कर्मरज्जुनिगडं ह्यतिखण्डयन्ति

सूक्तैः श्रुतीर्बुधजनस्य च मण्डयन्ति ।

त्वद्भक्तिमप्यधिभवाब्धि तरण्डयन्ति
 

ये त्वन्मनः स्तुतिधनस्य करण्डयन्ति ॥ ६ ॥
 

 
हि निश्चये । ते धन्या जनाः कर्माणि शुभाशुभशलानि तान्येव रज्जवस्तेषां निगडो

बन्धस्तमतिखण्डयन्ति अतिशयेन च्छिन्दन्ति । तथा ते जना बुधजनस्य सहृदयजनस्य

श्रुतीः श्रोत्राण्यपि सूक्तैः प्रौढोक्तिभिर्मण्डयन्ति भूषयन्ति । त्वद्भक्तिमपीत्यत्रापिशब्दो

भिन्नक्रमः । अधिभवाब्ध्यपि भवः संसार एवाब्धिस्तत्र भवाब्धावपि त्वद्भक्तितिं भवदीय-

भक्तितिं तरण्डं प्लवं संपादयन्ति । हे विभो, ये जनाः सुकृतिनस्त्वदीयं मनः स्तुतिधनस्य

स्वकृतस्तुतिवित्तस्य करण्डयन्ति करण्डं मञ्जूषां संपादयन्ति ॥

 
पापानि तेऽश्मशकलानि वॅ[^३]व चूर्णयन्ति

गीर्भिर्भुभ्रुवः सुमनसामपि घूर्णयन्ति ।
 

 
[^
]. 'ये' ख.
[^
]. ख- पुस्तके द्वितीयतृतीयचरणयोर्व्यत्यासः
[^
]. इवार्थे.
 
Digitized by Google