This page has not been fully proofread.

३६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
तानन्तकञ्जुकुटयोऽपि न तर्जयन्ति
 
४२७
 
ये त्वां भवामयहरं हर पूजयन्ति ॥ ४ ॥
 
हे हर पातकिनां त्रिविधपातकहर, ते सुकृतिनो जनाश्चन्द्रकिरणवद्रम्यं निर्मलं धर्म-
मर्जयन्ति । तथा ते जनाः स्वप्रौढोक्तिभिर्विदग्धानां कुशाग्रीयधिषणानामपि हृदयानि
रञ्जयन्ति । तथान्तकस्य यमस्य क्रोधोद्धुरस्य भ्रुकुटयोऽपि तान् जनान्न तर्जयन्ति त्रास-
यन्ति । भवामयहरं संसाररोगापहं ये जनास्त्वां पूजयन्ति ॥
 
त्वत्स्तुति हृदयधाम्नि कवाटयन्ति
दुःखदुमं च दृढमापदि पाटयन्ति ।
भावं तवैव भुवि बालमिवाटयन्ति
 
ये वाङ्गटीमभिमुखं तव नाटयन्ति ॥ ९ ॥
 
हे विभो, ते धन्या जनास्त्वदीयां स्तुतिं हृदयधानि स्वकीये चित्तगृहे कवाटयन्ति
कवाटमररं तत्कुर्वन्ति । यथाररेणान्यप्रवेशो निषिध्यते तथा त्वत्स्तुतिरेव तेषामाशये नि-
वसतीत्यर्थः । तथा ते जना दुःखं भवामयजं तदेव द्रुमो महामूलस्तं दृढमपि स्थिरमप्या-
पदि जन्मजरामरणत्रासविपदि पाटयन्ति च्छिन्दन्ति । तथा ते जनास्तवैव स्वामिनो भावं
भावनारसं बालमिव शिशुमिव भुवि भूलोकेऽटयन्ति संचारयन्ति ये जनास्तव स्वामि-
नोऽभिमुखं संमुखं वाङटीं वाग्वाण्येव नटी तां स्वकीयां नटयन्ति नर्तयन्ति ॥
ते कर्मरज्जुनिगडं ह्यतिखण्डयन्ति
सूक्तैः श्रुतीर्बुधजनस्य च मण्डयन्ति ।
त्वद्भक्तिमप्यधिभवाब्धि तरण्डयन्ति
 
ये त्वन्मनः स्तुतिधनस्य करण्डयन्ति ॥ ६ ॥
 
हि निश्चये । ते धन्या जनाः कर्माणि शुभाशुभशषलानि तान्येव रजवस्तेषां निगडो
बन्धस्तमतिखण्डयन्ति अतिशयेन च्छिन्दन्ति । तथा ते जना बुधजनस्य सहृदयजनस्य
श्रुतीः श्रोत्राण्यपि सूक्तैः प्रौढोक्तिभिर्मण्डयन्ति भूषयन्ति । त्वद्भक्तिमपीत्यत्रापिशब्दो
भिन्नक्रमः । अधिभवाब्ध्यपि भवः संसार एवाब्धिस्तत्र भवाब्धावपि त्वद्भक्ति भवदीय-
भक्ति तरण्डं प्लवं संपादयन्ति । हे विभो, ये जनाः सुकृतिनस्त्वदीयं मनः स्तुतिधनस्य
स्वकृतस्तुतिवित्तस्य करण्डयन्ति करण्डं मञ्जूषां संपादयन्ति ॥
पापानि तेऽश्मशकलानि वॅ चूर्णयन्ति
गीर्भिर्भुवः सुमनसामपि घूर्णयन्ति ।
 
१. 'ये' ख. २. ख- पुस्तके द्वितीयतृतीयचरणयोर्व्यत्यासः ३. इवार्थे.
 
Digitized by Google