2023-02-23 21:28:12 by ambuda-bot
This page has not been fully proofread.
४२६
काव्यमाला ।
षट्त्रिंशं स्तोत्रम् ।
अथातो प्रन्थकृत्स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशमारभमाण आह-
ते नाथ जन्म सकलं न कलङ्कयन्ति
न द्रोहकर्मरसिकानपि शङ्कयन्ति ।
तान्सस्पृहं मृगदृशः प्रविलोकयन्ति
ये त्वत्पदाब्जरजसालिकमङ्कयन्ति ॥ १ ॥
हे नाथ जगदीश, ते धन्याः सकलं जन्म स्वकीयं न कलङ्कयन्ति । तथा द्रोहकर्मणि
रसिकानपि रिपून् न शङ्कयन्ति सशङ्कान्कुर्वन्ति । तेभ्योऽपि सकाशात् शङ्कां न कुर्वन्ति ।
बलवति रिपौ सुहृदि वा समदर्शित्वात् । तथा सस्पृहं तान्मृगाक्ष्यः प्रकर्षेण विलोक-
यन्ति । ये जनास्त्वत्पादाब्जधूल्या अलिकं स्वकीयं ललाटं नित्यप्रणतिभिरङ्कयन्ति सचिह्नं
कुर्वन्ति ॥
ते विद्विषामभिमतं हृदि मोघयन्ति
ज्ञानामृतं च कृपणेषु समर्पयन्ति ।
तेषा वचः क्षितिभुजोऽपि न लघयन्ति
ये त्वां स्तवोक्तिकुसुमर्द्धिभिरर्चयन्ति ॥ २ ॥
ते धन्या जना विद्विषां शत्रूणां हृदि अभिमतं द्रोहकृत्यं मोघयन्ति निष्फलयन्ति ।
तथा ते ज्ञानमेवामृतं रसायनं कृपणेषु दीनेषु समर्पयन्ति वितरन्ति । तथा तेषां वचो रा
जानोऽपि न लक्ष्यन्ति । हे विभो, ये भक्तजनाः स्तवोक्तय एव कुसुमानामृद्धयस्ता
भिस्त्वां विभुमर्चयन्ति पूजयन्ति ॥
ते जन्मनः फलमनल्पमुदञ्चयन्ति
क्लेशापदः स्वमपरं च विमोचयन्ति ।
तान्वैरिणः सहभुवोऽपि न वश्चयन्ति
ये त्वामनाथजनबान्धवमर्चयन्ति ॥ ३ ॥
हे विभो, ते धन्या जन्मनः स्वकीयस्य महत्फलमुदञ्चयन्ति उञ्चिन्वते । तथा ते
जना: क्लेशाः पञ्च अविद्यादयस्त एवापद् विपत् । यद्वा क्लेशो भवमरुभ्रमणजः एवा-
पत् तस्याः सकाशात्स त्मानं परं च लोकं विमोचयन्ति । तथा सहभुवः सहजा अपि
वैरिणः शत्रवः कामक्रोधादयः षट् बाह्या वा तान् जनान्कदाचिदपि न वचयन्ति । हे
विभो, अनाथजनानामशरणानां बान्धवमाश्वासकारिणं ये त्वामर्चयन्ति पूजयन्ति ॥
ते धर्ममिन्दुकरसुन्दरमर्जयन्ति
गीर्भिविंदग्धहृदयान्यपि रञ्जयन्ति ।
Digitized by Google