This page has been fully proofread once and needs a second look.

३९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
संहृत्याथ निजे महिम्नि निशिखिलं तत्कन्दुकान्दोलन-

क्लेशावेशविरामसंभृतसुखं कैवल्यमाकाङ्क्षसि ॥ २३ ॥
 

 
हे भगवन्परमेश, अवन्ध्यः कृतार्थो महिमा यस्य तादृशः संस्त्वं स्वतन्त्र आदौ नि-

र्मानुषं तमोभूतं सद्विश्वं निर्माय कृत्वा तदनु स्फीतैः अनु ( समु) ल्लासितैर्विभूतिक्रमैर्वैभवप-

रिपाटीभिर्विश्वसितं वितत्य सजीवं विधाय अथानन्तरं तदनु निजे स्वमहिम्नि निखिलं

तद्विश्वं कालाग्निरुद्ररूपेण संहृत्य तस्य विश्वस्य सचराचरस्य यत्कन्दुकान्दोलनं कन्दुक
-
वदान्दोलनं तेन यः क्लेशावेशो महत: क्लेशस्यावेशस्तस्य विरामो नाशस्तेन संभृतं परि

पूर्णं सुखं यस्मिंस्तत्तादृशं कैवल्यं निर्वाणमाकाङ्क्षसि ॥
 

 
इत्थं किं बहुना त्वदभिङ्घ्रिकमलद्वन्द्वप्रसादादिदं
 
४२५
 

भूयान्मे भवभीतिभञ्जन विभो भक्तानुकम्पापर ।

यत्त्वत्पादसरोजपूजनविधौ भक्तिर्विरोगं वपु-

र्यावज्जीवमथ त्वदेकमनसो मुक्तिस्तवैवाग्रतः ॥ २४ ॥
 

 
हे विभो, भवभीतिभञ्जन जन्मजरामरणत्रासनाशन, तथा भक्तानुकम्पायां प्रहृह्वजनानु-

ग्रहे परः सक्तस्तत्संबोधनं भक्तानुकम्पापर, इत्थमनेन बहुना मदीयेन विज्ञप्ति
वचनेन तव
विभोश्चरणसरोजयुगलप्रसादादिदं मे भूयात् । इदं किमित्याह - यदित्यादि । हे विभो,

त्वत्पादसरोजपूजनविधौ त्वच्चरणाब्जपूजाविधौ भक्तिर्वाङ्नःकायकर्मभिस्तदासक्तिर्यद्भ-

वति । तथा यावज्जीवं निर्याणावधि वपुः शरीरं नीरोगं यद्भवति । अथानन्तरं तदनु त्व-

य्येव प्रतिक्षणं ध्येये एकमनन्यासक्तं मनो यस्य स तादृशस्य मम तवैवाप्ग्रतो मुक्तिः कै-

वल्यं यद्भवति । तन्मे भूयादित्याशास इत्यर्थः ॥
 

अथास्य स्तोत्रस्योपसंहार श्लोकमाह -
 

 
एवं देव तव स्तुतिप्रवचनप्राप्तप्रसादस्य मे
 

भूयो जन्म भविष्यतीति भगवन्मन्ये खपुष्पोपमम् ।

स्याच्चेत्प्राक्तनकर्मशेषजनितं तन्नाथ किं भूयसा
 

भूयासं भवदीयपादकमलस्तुत्या पुनर्निर्वृतः ॥ २९ ॥
 

 
हे भगवन्देव, तव स्वामिनः स्तवानां यत्प्रवचनं वीप्सया कथनं तेन प्राप्तः प्रसादोऽनु-

ग्रहो येन स तादृशस्य मे धन्यस्य भूयो जन्म भविष्यतीति यत्तत्खपुष्पोपममाकाशकुसुमो-

पमं मन्ये जानाम्यहम् । सर्वथा तदभावः । मम प्राक्तनकर्मशेषेण जनितं चेत्कदाचिद्भवे-

त्
तर्हि तत्रापि जन्मनि त्वत्पादसरोजस्तुत्या पुनर्निर्वृतः कैवल्यं प्राप्तो भूयासमिति शिवम् ॥

 
इति
श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

ईश्वरप्रशंसास्तोत्रं पश्ञ्चत्रिंशम् ।
 
इति
 
५४
 
Digitized by Google