This page has not been fully proofread.

३९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
संहृत्याथ निजे महिम्नि निशिलं तत्कन्दुकान्दोलन-
क्लेशावेशविरामसंभृतसुखं कैवल्यमाकासि ॥ २३ ॥
 
हे भगवन्परमेश, अवन्ध्यः कृतार्थो महिमा यस्य तादृशः संस्त्वं स्वतन्त्र आदौ नि-
र्मानुषं तमोभूतं सद्विश्वं निर्माय कृत्वा तदनु स्फीतैः अनु ( समु) ल्लासितैविभूतिक्रमैर्वैभवप-
रिपाटीभिर्विश्वसितं वितत्य सजीवं विधाय अथानन्तरं तदनु निजे स्वमहिनि निखिलं
तद्विश्वं कालाग्निरुद्ररूपेण संहृत्य तस्य विश्वस्य सचराचरस्य यत्कन्दुकान्दोलनं कन्दुक
वदान्दोलनं तेन यः क्लेशावेशो महत: क्लेशस्यावेशस्तस्य विरामो नाशस्तेन संभृतं परि
पूर्ण सुखं यस्मिंस्तत्तादृशं कैवल्यं निर्वाणमाकाङ्क्षसि ॥
 
इत्थं किं बहुना त्वदभिकमलद्वन्द्वप्रसादादिदं
 
४२५
 
भूयान्मे भवभीतिभञ्जन विभो भक्तानुकम्पापर ।
यत्त्वत्पादसरोजपूजनविधौ भक्तिर्विरोगं वपु-
र्यावज्जीवमथ त्वदेकमनसो मुक्तिस्तवैवाग्रतः ॥ २४ ॥
 
हे विभो, भवभीतिभञ्जन जन्मजरामरणत्रासनाशन, तथा भक्तानुकम्पायां प्रहृजनानु-
ग्रहे परः सक्तस्तत्संबोधनं भक्तानुकम्पापर, इत्थमनेन बहुना मदीयेन विज्ञप्ति
विभोश्चरणसरोजयुगलप्रसादादिदं मे भूयात् । इदं किमित्याह - यदित्यादि । हे विभो,
त्वत्पादसरोजपूजनविधौ त्वच्चरणाब्जपूजाविधौ भक्तिर्वाङ्गनःकायकर्मभिस्तदासक्तिर्यद्भ-
वति । तथा यावज्जीवं निर्याणावधि वपुः शरीरं नीरोगं यद्भवति । अथानन्तरं तदनु त्व-
य्येव प्रतिक्षणं ध्येये एकमनन्यासक्तं मनो यस्य स तादृशस्य मम तवैवाप्रतो मुक्तिः कै-
वल्यं यद्भवति । तन्मे भूयादित्याशास इत्यर्थः ॥
 
अथास्य स्तोत्रस्योपसंहार श्लोकमाह -
 
एवं देव तव स्तुतिप्रवचनप्राप्तप्रसादस्य मे
 
भूयो जन्म भविष्यतीति भगवन्मन्ये खपुष्पोपमम् ।
स्याच्चेप्राक्तनकर्मशेषजनितं तन्नाथ किं भूयसा
 
भूयासं भवदीयपादकमलस्तुत्या पुनर्निर्वृतः ॥ २९ ॥
 
हे भगवन्देव, तव स्वामिनः स्तवानां यत्प्रवचनं वीप्सया कथनं तेन प्राप्तः प्रसादोऽनु-
ग्रहो येन स तादृशस्य मे धन्यस्य भूयो जन्म भविष्यतीति यत्तत्खपुष्पोपममाकाशकुसुमो-
पमं मन्ये जानाम्यहम् । सर्वथा तदभावः । मम प्राक्तनकर्मशेषेण जनितं चेत्कदाचिद्भवे-
तर्हि तत्रापि जन्मनि त्वत्पादसरोजस्तुत्या पुनर्निर्वृतः कैवल्यं प्राप्तो भूयासमिति शिवम् ॥
श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
ईश्वरप्रशंसास्तोत्रं पश्चत्रिंशम् ।
 
इति
 
५४
 
Digitized by Google