This page has been fully proofread once and needs a second look.

३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
तापत्रयापहृतये त्रिशिखं त्रिवर्ग-

सिद्धये त्रिधामलयनं नयनत्रयं च ।

त्रिःस्त्रोतसोऽपि सलिलं त्रिमलापनुत्यै
 
१९
 

भूयात्रिलोकमहितं त्रिपुरद्विषो वः ॥ १७ ॥
 

 
तापत्रयेति । त्रिपुरद्विषस्त्रिपुरान्तकस्य त्रिलोकमहितं त्रिषु लोकेषु महितं पूजितं

त्रिशिखं तिस्रः शिखा अप्ग्राणि यस्य तत् त्रिशिखं त्रिशूलमायुधविशेषः वो युष्माकं

तापत्रयापहृतये आध्यात्मिकाधिदैविकाधिभौतिकाख्यतापत्रयशान्त्यै भूयात् । तथा

त्रिलोकमहितं महेश्वरस्य त्रिधामलयनम् । त्रिधाम्नां सूर्येन्द्रमीवग्नीनां लनम् । गृहमि-

त्यर्थः । नयनत्रयं च त्रिवर्गस्य धर्मार्थकामरूपस्य सिद्ध्यै भवतात् भूयात् । तथा त्रिपु-

रद्विषः । शिरःस्थमिति शेषः । त्रिःस्रोतसोऽपि त्रिपथागाया अपि लोकमहितं जलं

सलिलं त्रयो ये मला आणवमायीयकार्माः तेषामपनुतिरत्यन्तदूरीकरणं तदर्थं भूयात् ॥

 
यद्दर्शनामृतमुसुखानुभवेन धन्या
 

नेत्रोत्पलानि चिरमर्धनिमीलितानि ।

दृष्यार्गङ्मार्गेगोचररवीन्दुकरप्रसङ्ग -
 

भङ्ग्येव बिभ्रति शिवः शिवदः स वोऽस्तु ॥ १८ ॥

 
यद्दर्शनेति । स विभुर्वः शिवदः अस्तु । शिवमात्यन्तिकदुःखनिवृत्तिरूपं ददातु । स

क इत्याह—धन्याः सुकृतिनो जनाः । यद्दर्शनेत्यादि । यद्दर्शनं तदेकचित्ततया व्याप्तं त
-
द्दर्शनं(?)तदेवामृतं तेन यः सुखानुभवः तेन अर्धनिमीलितानि नेत्रोत्पलानि नेत्रकम-

लानि । तद्ध्यानैकसुखेनेषन्निमीलितानीत्यर्थः । अत्र हेतू त्प्रेक्षामाह - दृङ्मार्गेति । दृङ्मा-

र्गगोचरौ सव्यापसव्यनेत्रस्थौ यौ रवीन्दू सूर्यचन्द्रौ तयोः करा रश्मयः तेषां प्रकर्षेणा-

तिसामीप्यरूपेण सङ्गः संश्लेषः तस्य भक्तिःङ्गिः तयेव । [नेत्र] कमलानां रविकरप्रसक्त्या

विकासः, शशिकरप्रकाशेन च संकोचः । अतो नेत्रोत्पलानामर्धनिमीलितत्वमेव जातमि

त्यर्थः । अत्र नेत्रोत्पलानीति "उत्पलशब्दस्य पद्मकुमुदादिषु सामान्येन वृत्तिः । तेन

महोत्पलमिति पद्मस्य संज्ञा । अत एव सामान्यवृत्तित्वान्नीलाब्जेऽप्येतयोर्वृत्तिर्दृश्यते ।

तथा च 'इन्दीवरे मांसशून्ये उत्पलं कुष्ठभूरुहे' इति रभसः । 'श्यामं शितिकण्ठनीलं

कुवलयमिन्दीवरं च नीलाब्जम्' इति नाममाला च । ननु यद्येवं कथमुत्पलमित्युक्ते

नीलोत्पलादिष्वेव बुद्धिर्जायते, न पद्मादौ । उच्यते - यथा कलायमुद्रादीनां सर्वेषां स-

सदशानां धान्यसंज्ञा इत्युक्त्या समानेऽपि धान्यार्थे धान्यमित्युक्ते कलमादिष्वेव बुद्धि-

र्भवति, न मुद्रागादौ । एवमिहापीत्यदोषः इति स्वामिसर्वधरादयः" इति रायमुकुट्याम् ।

अन्यैष्टीकाकारैर्नेत्रोत्पलानि नेत्रेन्दीवराण्येव वर्णितानि । तैस्तु तेषां रविकरप्रसक्त्या

संकोचः शशिकरप्रकाशेन च विकास इति यदुक्तं तत्तै रायमुकुटटीकासंप्रदायो नावगत

इति तज्ज्ञैरुपेक्ष्यम् । अत्र चार्धनिमीलितत्वं मुरारिनाटके मुरारिमित्श्रैरपि वर्णितम् -
 
Digitized by Google