This page has been fully proofread once and needs a second look.

४२४
 
काव्यमाला ।
 
किंभूतः । प्रकटिता अर्थाः सप्त पदार्था एव गहनं येन स तादृशः । अतः कुत इत्याह-

अज्ञो विचेतनः पुरुषोऽविज्ञायैव परुषमत्युत्कटं विषमं च कर्म कुरुते । तस्याशुभकर्मणो

विपाके च सति भवक्लेशकलिले भवक्लेशाः संसारजा: क्लेशा एव कलुषं तत्र निपतति ॥

 
उपायस्प्राप्तौ भवति न विना शास्त्रमपरो
 

न शास्त्रं तत्स्वामिन्निह यदुपदिष्टं न भवता ।

विविञ्चन्तः सन्तो हितमहितमेते[^१] विदधते
 

हिते सक्तिं मुञ्चत्यहितमिति नार्हन्ति पतनम् ॥ २० ॥

 
तस्य ज्ञानालोकस्य प्राप्तौ शास्त्रं विनान्य उपायो नास्ति । हे स्वामिन्, यन्न भवता

शिवशासन उपदिष्टं तच्छास्त्रमुपायो नास्ति न भवति । अत एव सन्तः कृतिनः हितम-

हितं च विविञ्चन्तो हिताहितविवेकं कुर्वाणा हिते सक्तितिं विदधति कुर्वन्ति अहितं च मु.
श्व
-
ञ्च
न्ति । इत्यतो हेतोः सन्तः पतनं नार्हन्ति ॥
 

 
भवान्धर्मं साक्षादकृत सहजज्ञानमनसा
 

तमोध्वंसं पुंसामथ तदुपदेशेन विदधे ।

प्रमाणं चोक्तिस्ते नहि घनघृणानिघ्नमनसो
 

जगद्भुर्तुर्युक्तं वितथमभिधातुं भगवतः ॥ २१ ॥
 

 
हे विभो, भवान्दयालुः सहजं ज्ञानरूपं यन्महस्तेजस्तेन सहजज्ञानमहसा धर्मं साक्षाद-

कृत साक्षात्कृतवान् । अथानन्तरं तदुपदेशेन ज्ञानोपदेशेन पुंसां मर्त्यानां तमोध्वंसमज्ञानरू-

पान्धकारनिवारणं भवान् विदधे चकार । ते जगदीशस्योक्तिः प्रमाणम् । कुत इत्याह-

नहीत्यादि । घनघृणाधीनमनसो जगद्भर्तुर्भगवतः शंभोर्वितथमनृतमभिधातुं न युक्तं
 

नोचितम् ॥
 

 
तदेतत्कारुण्यं घनतमतमः पङ्कपटली-

विलीनोऽयं लोकस्तव वरद संभाव्य सहजम् ।

दधच्छ्रद्धाबन्धं त्वदुदितमनुष्ठातुमसकृ-

त्
प्रवृत्तो दुष्पारं हर तरति संसारजलधिम् ॥ २२ ॥
 

 
हे हर वरद, अतिशयेन घना घनतमा तादृशी या तमः पङ्कस्याविद्यारूपकर्दमस्य पटली

तस्यां विशेषेण लीनोऽयं लोकः सहजं स्वाभाविकं तदेतत् पूर्वक्रमोक्तेनोदितं तव का

रुण्यं कृपामृतं संभाव्यादरेण मत्वा त्वया विभुना दयालुनोदितं श्रीशिवशासनोक्तमनु-

ष्ठानं सम्यग्विधातुमसकृत्प्रवृत्तः श्रद्धाया बन्धं दधद्दुष्पारमपि भवजलधिधिं तरति ॥

 
इत्येवं भगवन्नवन्ध्यमहिमा निर्माय निर्मानुषं
 

विश्वं॑वं विश्वसितं वितत्य तदनु स्फीतैर्विभूतिक्रमैः ।
 
Digitized by Google