This page has not been fully proofread.

४२४
 
काव्यमाला ।
 
किंभूतः । प्रकटिता अर्थाः सप्त पदार्था एव गहनं येन स तादृशः । अतः कुत इत्याह-
अज्ञो विचेतनः पुरुषोऽविज्ञायैव परुषमत्युत्कटं विषमं च कर्म कुरुते । तस्याशुभकर्मणो
विपाके च सति भवक्लेशकलिले भवक्लेशाः संसारजा: क्लेशा एव कलुषं तत्र निपतति ॥
उपायस्प्राप्तौ भवति न विना शास्त्रमपरो
 
न शास्त्रं तत्स्वामिन्निह यदुपदिष्टं न भवता ।
विविञ्चन्तः सन्तो हितमहितमेते विदधते
 
हिते सक्तिं मुञ्चत्यहितमिति नार्हन्ति पतनम् ॥ २० ॥
तस्य ज्ञानालोकस्य प्राप्तौ शास्त्रं विनान्य उपायो नास्ति । हे स्वामिन्, यन्न भवता
शिवशासन उपदिष्टं तच्छास्त्रमुपायो नास्ति न भवति । अत एव सन्तः कृतिनः हितम-
हितं च विवियन्तो हिताहितविवेकं कुर्वाणा हिते सक्ति विदधति कुर्वन्ति अहितं च मु.
श्वन्ति । इत्यतो हेतोः सन्तः पतनं नार्हन्ति ॥
 
भवान्धर्म साक्षादकृत सहजज्ञानमनसा
 
तमोध्वंसं पुंसामथ तदुपदेशेन विदधे ।
प्रमाणं चोक्तिस्ते नहि घनघृणानिघ्नमनसो
 
जगद्भुर्तुर्युक्तं वितथमभिधातुं भगवतः ॥ २१ ॥
 
हे विभो, भवान्दयालुः सहजं ज्ञानरूपं यन्महस्तेजस्तेन सहजज्ञानमहसा धर्म साक्षाद-
कृत साक्षात्कृतवान् । अथानन्तरं तदुपदेशेन ज्ञानोपदेशेन पुंसां मर्त्यानां तमोध्वंसमज्ञानरू-
पान्धकारनिवारणं भवान् विदधे चकार । ते जगदीशस्योक्तिः प्रमाणम् । कुत इत्याह-
नहीत्यादि । घनघृणाधीनमनसो जगद्भर्तुर्भगवतः शंभोर्वितथमनृतमभिधातुं न युक्तं
 
नोचितम् ॥
 
तदेतत्कारुण्यं घनतमतमः पङ्कपटली-
विलीनोऽयं लोकस्तव वरद संभाव्य सहजम् ।
दधच्छ्रद्धाबन्धं त्वदुदितमनुष्ठातुमसकृ-
प्रवृत्तो दुष्पारं हर तरति संसारजलधिम् ॥ २२ ॥
 
हे हर वरद, अतिशयेन घना घनतमा तादृशी या तमः पङ्कस्याविद्यारूपकर्दमस्य पटली
तस्यां विशेषेण लीनोऽयं लोकः सहजं स्वाभाविकं तदेतत् पूर्वक्रमोक्तेनोदितं तव का
रुण्यं कृपामृतं संभाव्यादरेण मत्वा त्वया विभुना दयालुनोदितं श्रीशिवशासनोक्तमनु-
ष्ठानं सम्यग्विधातुमसकृत्प्रवृत्तः श्रद्धाया बन्धं दधद्दुष्पारमपि भवजलधि तरति ॥
इत्येवं भगवन्नवन्ध्यमहिमा निर्माय निर्मानुषं
 
विश्वं॑ विश्वसितं वितत्य तदनु स्फीतैर्विभूतिक्रमैः ।
 
Digitized by Google