This page has been fully proofread once and needs a second look.

३९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
४२३
 
ईशो देवो न प्रभवति समर्थो भवति । तदामुना ईशेन देवेन किम् । कुत इत्याह - तदेवे-

त्यादि । तदा तदेवोभयं व्यक्तं प्रकटमेव तनुभुवननिर्माणनिपुणमस्तु । अत्रेशोऽधिष्ठाता

कुम्भकारस्थाने । विश्वं घटरूपम् । यथा कुम्भकार उपकरणैर्घटनिर्माणं विधत्ते तथा भ

गवान्विश्वनिर्माणं स्वेच्छाशक्त्या करोतीत्यभिप्रायः ॥
 

 
इतीत्थं मुग्धानामिह मतिविमोहाय कुषिधियः

कुतर्कप्रागल्भीमुखरितमुखा मूढमनसः ।

अधिष्ठातारं त्वां वरद जडवर्गस्य सदयं
 

न जानन्ति स्वामिन्परमपुरुषं चेतनममी ॥ १७ ॥

 
इत्यमित्येवार्थे । इत्येवं मुग्धानां जडाशयानां मतिमोहाय बुद्धिभ्रमाय कुत्सितश्वासौ

तर्कोऽनिष्टप्रसञ्जनं तत्र या प्रागल्भी धार्ष्टयेट्यं तया मुखरितं मुखं येषां ते तादृशाः ।

तथा मूढमनसोऽज्ञानावृतचित्ताः हे वरद स्वामिन्, त्वां देवं चेतनं परसंविद्रूपं परमपुरुषं

परमात्मानं जडवर्गस्य परमाण्वादेरधिष्ठातारं कर्तारं सदयं कृपाम्बुधिं न जानन्ति ॥

एतदेव बाह्यदृष्टान्तेन द्रढयति-

 
[^१]
यथोपादानं मृत्तदनु सहकारीह लगुडो
 

जलं चक्रं सूत्रं वरद जडवर्गोऽयमखिलः ।
न यत्वं

न यत्नं
कौलालं प्रभवति विना कुम्भघटने
 

तथाधिष्ठातारं न भवति विना त्वां भवविधिः ॥ १८ ॥
 

 
हे वरद, घटस्योपादानमुपादानकारणं मृत् मृत्तिका । तदनु सहकारी सहकारिकारणं

लगुडो दण्डः । जलं वारि । चक्रं कुम्भकारचक्रम् । सूत्रं तन्तुः । अयमखिलः समस्तो

जडवर्ग: कौलालं कुम्भकारसंबन्धिनं यत्नं विना यथा कुम्भघटने घटं कर्तुं न प्रभवति न

समर्थो भवति तथा त्वां विभुमधिष्ठातारं कर्तारं विना भवविधिः संसारविधिर्जगन्निर्माण-

रूपो न भवतीति संबन्धः ॥
 

अथातो भवाम्बुधेरुत्तरणोपायं तन्निमग्नाय जनायोपदिशति-

 
अविज्ञायैवाज्ञः परुषविषमं कर्म कुरुते
 

विपाके तस्यासौ निपतति भवक्लेशकलिले ।

अतो ज्ञानालोकः प्रकटितसमस्तार्थगहनो
 

महामोहध्वान्तव्यवहितदृशोऽवश्यमुचितः ॥ १९ ॥
 

 
तीतो हेतोः, महामोहेनाविद्यारूपेण ध्वान्तेन तमसा व्यवहिता दृक् ज्ञानमेव लोचने

यस्य स तादृशस्य महामोहध्वान्तव्यवहितदृशः पुंसो ज्ञानालोको ज्ञानप्रकाशोऽवश्यमुचितः ।
 

 
[^
]. 'अथ' ख.
 
Digitized by Google