This page has not been fully proofread.

३९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
४२३
 
ईशो देवो न प्रभवति समर्थो भवति । तदामुना ईशेन देवेन किम् । कुत इत्याह - तदेवे-
त्यादि । तदा तदेवोभयं व्यक्तं प्रकटमेव तनुभुवननिर्माणनिपुणमस्तु । अत्रेशोऽधिष्ठाता
कुम्भकारस्थाने । विश्वं घटरूपम् । यथा कुम्भकार उपकरणैर्घटनिर्माणं विधत्ते तथा भ
गवान्विश्वनिर्माणं स्वेच्छाशक्त्या करोतीत्यभिप्रायः ॥
 
इतीत्थं मुग्धानामिह मतिविमोहाय कुषियः
कुतर्कप्रागल्भीमुखरितमुखा मूढमनसः ।
अधिष्ठातारं त्वां वरद जडवर्गस्य सदयं
 
न जानन्ति स्वामिन्परमपुरुषं चेतनममी ॥ १७ ॥
इत्यमित्येवार्थे । इत्येवं मुग्धानां जडाशयानां मतिमोहाय बुद्धिभ्रमाय कुत्सितश्वासौ
तर्कोऽनिष्टप्रसअनं तत्र या प्रागल्भी धाष्टये तया मुखरितं मुखं येषां ते तादृशाः ।
तथा मूढमनसोऽज्ञानावृतचित्ताः हे वरद स्वामिन्, त्वां देवं चेतनं परसंविद्रूपं परमपुरुषं
परमात्मानं जडवर्गस्य परमाण्वादेरधिष्ठातारं कर्तारं सदयं कृपाम्बुधिं न जानन्ति ॥
एतदेव बाह्यदृष्टान्तेन द्रढयति-
यथोपादानं मृत्तदनु सहकारीह लगुडो
 
जलं चक्रं सूत्रं वरद जडवर्गोऽयमखिलः ।
न यत्वं कौलालं प्रभवति विना कुम्भघटने
 
तथाधिष्ठातारं न भवति विना त्वां भवविधिः ॥ १८ ॥
 
हे वरद, घटस्योपादानमुपादानकारणं मृत् मृत्तिका । तदनु सहकारी सहकारिकारणं
लगुडो दण्डः । जलं वारि । चक्रं कुम्भकारचक्रम् । सूत्रं तन्तुः । अयमखिलः समस्तो
जडवर्ग: कौलालं कुम्भकारसंबन्धिनं यत्नं विना यथा कुम्भघटने घटं कर्तुं न प्रभवति न
समर्थो भवति तथा त्वां विभुमधिष्ठातारं कर्तारं विना भवविधिः संसारविधिर्जगन्निर्माण-
रूपो न भवतीति संबन्धः ॥
 
अथातो भवाम्बुधेरुत्तरणोपायं तन्निमनाय जनायोपदिशति-
अविज्ञायैवाज्ञः परुषविषमं कर्म कुरुते
 
विपाके तस्यासौ निपतति भवक्लेशकलिले ।
अतो ज्ञानालोकः प्रकटितसमस्तार्थगहनो
 
महामोहध्वान्तव्यवहितदृशोऽवश्यमुचितः ॥ १९ ॥
 
अती हेतोः, महामोहेनाविद्यारूपेण ध्वान्तेन तमसा व्यवहिता दृक् ज्ञानमेव लोचने
यस्य स तादृशस्य महामोहध्वान्तव्यवहितदृशः पुंसो ज्ञानालोको ज्ञानप्रकाशोऽवश्यमुचितः ।
 
१. 'अथ' ख.
 
Digitized by Google