This page has not been fully proofread.

४२२
 
काव्यमाला ।
 
रिता मतिर्यस्य सोऽपरप्रेरितमतिस्त्रिभुवनस्य विधाने प्रयतते प्रयत्नं करोति । अथवा स्व-
तत्रो देवस्त्रिभुवनविधाने प्रयतते किम् । आद्यपक्षे परप्रेरितेत्यादिपक्षे परविधेयस्य परप्रे-
रितस्य विभुत्वशक्तिर्न हि भवति । परस्मिन्स्वतन्त्रतापक्षे किं फलमुद्दिश्य मनसि निधाय
त्रिभुवनं विधत्ते ॥
 
अथास्येयं वाञ्छा प्रभवति न कर्मक्षयमृते
 
नृणां मुक्तिः सोऽपि क्वचन न विना भोगमुचितः ।
विनाधारं भोगो न भवति वपुर्नापि भुवनं
 
ततोऽहै जन्तूनां तनुभुवननिष्पादनमिति ॥ १४ ॥
 
अथानन्तरमस्य देवस्येयं वाञ्छा भवति । इयं का । कर्मक्षयं विना नृणां मुक्तिर्न भ
वति । सोऽपि कर्मक्षयो विनाभोगं न भवति । भोगोऽप्याधारमाश्रयं विना न भवति
............ । ततो हेतोर्जन्तूनां तनवश्च भुवनानि च तेषां निष्पादनं संपाद-
नमई युक्तम् ॥
 
इदं युक्तं सान्द्रामृतमधुरयान्तः करुणया
प्रयुक्तस्याजस्रं परहितविधानव्यसनिनः ।
दयालुश्चेल्लोकं सृजति सकलं किं न सुखिनं
 
कुतो वाधिव्याधिक्षत इह जनोऽनेन जनितः ॥ १५ ॥
विभोरित्यध्याहारः । सान्द्ररसायनरसमधुरयान्तर्मनसि करुणया कृपया प्रयुक्तस्य तथा
अजस्रं सततं परहितविधाने व्यसनिनो विभोरिदं युक्तमेव । अयं देवो दयालुः कृपाम्बु-
घिश्चेत्तर्हि सकलं लोकं सुखिनमेव किं न सृजति । इह जनति आधिना मानसचिन्ता-
पीडया व्याधिभिर्नानारोगैश्च क्षतो बाधितो जनः कुतो जनितः ॥
अथोपादानं यद्भवति परमाण्वादि जगत-
स्तथा कर्मानेहः प्रभृति सहकार्येतदुभयम् ।
विना सृष्टौ नैष प्रभवति यदीशः किममुना
 
तदेवास्तु व्यक्तं तनुभुवननिर्माणनिपुणम् ॥ १६ ॥
 
अथानन्तरम् । यद्यत उपादीयते उत्पद्यते तत्तस्योपादानकारणम् । जगतः सृष्टौ सृष्टि-
विषये । परमाणवस्त्रसरेणवः । 'जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । तस्य त्रिंश-
तमो (षष्ठतमो) भागः परमाणुरुदाहृतः ॥' इति । परमाणव उपादानकारणं यद्भवति ।
तथा कर्म शुभाशुभशबलभेदेन त्रिविधम् । अनेहा कालः । आदिना जलसूत्रादि । तत्प्र-
भृति सहकारिकारणं च यस्य । तदुभयमुपादानसहकारिकारणरूपं विना सृष्टौ सृष्टिविधाने
१. 'साई' क.
 
Digitized by Google