This page has been fully proofread once and needs a second look.

३१ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
तवैकस्य स्वामिन्यदिह सहजे सर्वविषये
 

क्रियाज्ञाने नित्ये करणनिरपेक्षे प्रभवतः ॥ ११ ॥
 

(युग्मम्)
 
४२१
 

 
हे विभो, अविद्यमान आदिरारम्भो यस्य स तादृशे संसारे रजसा रजोगुणेनोद्रिक्तेन

बाधिता धीर्येषां ते तादृशा अणव आत्मानः शुभं कृत्यं शुभकर्म घोरमशुभं वा शबलं मि-

श्रितं शुभाशुभमपि वा कर्म विदधति कुर्वते । रजोगुणस्योद्रेकात् । तथा चोक्तं सांख्या-

चार्यैः– 'ऊर्ध्वं सत्त्वविशालो रजोविशालस्तु मध्यतः सर्गः । अधमस्तमोविशालो ब्रह्मा-

दिस्तम्बपर्यन्तः ॥' इति । ततो हेतोस्तेषामेवाणूनां तस्य त्रिविधस्य शुभाशुभशबलरूपस्य

कर्मणो भोगार्थेथं तरुणा नवा या करुणा तया पूर्णं हृदयं यस्य स तादृशः सन् तनूनां

क्षित्यादीनां भुवनानां च कालाग्निरुद्रभुवनादारभ्य शिवभुवनान्तं चतुर्विंशत्यधिकशतद्वय-

परिमितं भुवनानां निर्माणं विधानमखिलं यद्विधत्से करोषि तदेतत्संकल्पेनेच्छाशक्तिस्वरू-

पेण प्रकटितं प्रकाशीकृतं समस्तं त्रिजगद्येन स तादृशस्य त्रिभुवने महितस्य पूजितस्य

भवतः प्रभोलींलामात्रम् । कुतस्तत् । तवैकस्येत्यादि । हे स्वामिन् जगदीश, इह जगति त-

वैवैकस्य प्रभोः सहजे अकृत्रिमे नित्ये अविनाशे करणेष्विन्द्रियेषु निरपेक्षे हेतुनिरपेक्षे वा

क्रियाज्ञाने क्रिया क्रियाशक्तिश्च ज्ञानं ज्ञानशक्तिश्च ते क्रियाज्ञाने सर्वो विषयो ययोस्ते स-

वेविषये । सर्वस्याधारभूते इत्यर्थः । यस्मात्प्रभवतः प्रभूते स्तः ॥ युगलकम् ॥

 
प्रसिद्धोऽयं पन्था न भवति विचित्रा विरचना
 

विना यत्कर्तारं स च न भवति ज्ञानरहितः ।

अतोऽवश्यं कर्ता त्रिजगति विचित्रे ज्ञ उचितः
 

च त्वं त्वय्यन्ये किमिव विवदन्ते हतधियः ॥ १२ ॥
 

 
हे विभो, कर्तारं कर्तृकारकं विना विचित्रा नानाविधा रचना यन्न भवति । सर्ता

ज्ञानरहितोऽपि न भवति । अयं प्रसिद्धः पन्था मार्ग आबालपर्यन्तं विदित एवेत्यर्थः ।

अतो हेतोः विचित्रे नानाविधे जगति अवश्यमेव कर्ता ज्ञः सर्वज्ञ उचित योग्यः । स

र्वज्ञः परमात्मा त्वमेव । अन्ये हतधियश्चार्वाकादयस्त्वयि विषये विवदन्ते विवादं कुर्वते ॥

अथैवं चेद्ब्रूयुः किमयमपरप्रेरितमतिः
 

 
स्वतन्त्रो वा देवस्त्रिभुवनविधाने प्रयतते ।

अमुष्याद्ये पक्षे नहि परविधेयस्य विभुता
 

परस्मिन्पेक्षे[^१] वा फलमपि किमुद्दिश्य यतते ॥ १३ ॥

 
अथशब्दो यद्यर्थे । ते इतधियः पामरा एवं चेद्र्ब्रूयुः अयं देवोऽपरेणान्येन केनचित्प्रे-

 
[^
]. 'पक्षेऽसौ' ख.
 
Digitized by Google