This page has been fully proofread once and needs a second look.

४२०
 
काव्यमाला ।
 
स्तस्माद्धेतोर्भवे संसारे कन्दुकस्य गतिं पतनोत्पतनरूपां विदधति । पुनर्भवभयभिदं संसा-

रत्रासनिवारकं समाधिं श्रीशिवैकताध्याने आत्ममनसोरैक्यं लब्धा पुनर्जन्मविपदं जन्मजं

दुःखं साधिम्ना बाढत्वेन दधति धारयन्ति ॥
 

 
अथातः परमेश्वरस्य प्रशंसाविशेषं कर्तुमाह -

 
चकाशे नाकाशे रविरविरलैरंशुपटलै-

रमन्दाभैरिन्दुस्तिमिरमहरन्नापि
किरणैः ।
न चान्यन्नक्षत्रग्रहदहनरत्नौषधितडि -
 
किरणैः ।
 

त्
प्रदीपादिज्योतिः क्वचिदपि पुरा नाथ ददृशे ॥ ८ ॥
 

 
तमोभूतं विश्वं किमपि गहनं धाम तदभू-

दथ स्वेच्छाशक्तिप्रकटितमहावैभवभरम् ।

विभज्यात्मानं क्ष्मावनपवनवह्नीन्दुतपन-

[^१]
स्वखैरंशैरीश त्रिजगदसृजत्कस्त्वदपरः ॥ ९ ॥
 

(युग्मम्)
 
[^२]
 
हे विभो, अविरलैरनल्यैः सहस्रप्रमितैरंशुभिः किरणैरुपलक्षितो रविः सूर्य आकाशे न

सि पुरा पूर्वेवं न चकाशे नादीप्यत । तथा अमन्दाभैरनल्पकान्तिभिः किरणैरिन्दुश्चन्द्रो-

sपि तिमिरमन्धकारं नाहरत् । तथा नक्षत्राण्यश्विन्यादीनि च ग्रहाश्च दहनोऽग्निश्च रत्ना-

नि चौषधयश्च तडिच्च प्रदीपश्च एतदादीनां ज्योतिः क्वचिदपि न ददृशे । तमोभूतमासी-

त्सर्वमित्यर्थः ॥ हे ईश जगदीश, तद्विश्वं तमोभूतं सत्किमपि गहनं धाम अतिगहनं गृह-

मिवाभूत् । अथानन्तरं स्वा चासाविच्छाशक्तिस्तया प्रकटितो महावैभवस्य महैश्वर्यस्य

विश्वलयोदयकरणसमर्थस्य भरो येन स तादृशं प्रकटितमहावैभवभरमात्मानं परसंविच्चि-

दानन्दरूपमपि क्ष्माजलपवनवहीन्दुतपनयजमानाकाशैरंशैर्मूर्तिभिस्त्वदपरः कस्त्रिजगत् ब्र-

ह्मादिस्तम्बपर्यन्तं जगत् कोऽसृजत् । न कोऽपीत्यर्थः ॥ (युग्मम्) ।

 
अनादौ संसारे विदधति रजोबाधितधियः
 

शुभं वा घोरं वा शबलमथ वा कृत्यमणवः ।

ततस्तद्भोगार्थं तरुणकरुणापूर्णहृदयो
 

विधत्से यत्तेषां तनुभुवननिर्माणमखिलम् ॥ १० ॥

 
तदेतत्संकल्पप्रकटितसमस्तत्रिजगतः
 

प्रभोर्लीलामात्रं भुवनमहनीयस्य भवतः ।
 

 
[^
]. 'स्वकैः' स्व.
[^
]. 'युग्मम्' इति पुस्तकद्वयेऽपि नास्ति.
 
Digitized by Google