This page has not been fully proofread.

४२०
 
काव्यमाला ।
 
स्तस्माद्धेतोर्भवे संसारे कन्दुकस्य गतिं पतनोत्पतनरूपां विदधति । पुनर्भवभयभिदं संसा-
रत्रासनिवारकं समाधिं श्रीशिवैकताध्याने आत्ममनसोरैक्यं लब्धा पुनर्जन्मविपदं जन्मजं
दुःखं साधिना बाढत्वेन दधति धारयन्ति ॥
 
अथातः परमेश्वरस्य प्रशंसाविशेषं कर्तुमाह -
चकाशे नाकाशे रविरविरलैरंशुपटलै-
रमन्दाभैरिन्दुस्तिमिरमहरन्नापि
न चान्यन्नक्षत्रग्रहदहनरत्नौषधितडि -
 
किरणैः ।
 
प्रदीपादिज्योतिः क्वचिदपि पुरा नाथ ददृशे ॥ ८ ॥
 
तमोभूतं विश्वं किमपि गहनं धाम तदभू-
दथ स्वेच्छाशक्तिप्रकटितमहावैभवभरम् ।
विभज्यात्मानं क्ष्मावनपवनवह्नीन्दुतपन-
स्वखैरंशैरीश त्रिजगदसृजत्कस्त्वदपरः ॥ ९ ॥
 
(युग्मम्)
 
हे विभो, अविरलैरनल्यैः सहस्रप्रमितैरंशुभिः किरणैरुपलक्षितो रविः सूर्य आकाशे न
असि पुरा पूर्वे न चकाशे नादीप्यत । तथा अमन्दाभैरनल्पकान्तिभिः किरणैरिन्दुश्चन्द्रो-
sपि तिमिरमन्धकारं नाहरत् । तथा नक्षत्राण्यश्विन्यादीनि च ग्रहाश्च दहनोऽग्निश्च रत्ना-
नि चौषधयश्च तडिच प्रदीपश्च एतदादीनां ज्योतिः क्वचिदपि न ददृशे । तमोभूतमासी-
त्सर्वमित्यर्थः ॥ हे ईश जगदीश, तद्विश्वं तमोभूतं सत्किमपि गहनं धाम अतिगहनं गृह-
मिवाभूत् । अथानन्तरं स्वा चासाविच्छाशक्तिस्तया प्रकटितो महावैभवस्य महैश्वर्यस्य
विश्वलयोदयकरणसमर्थस्य भरो येन स तादृशं प्रकटितमहावैभवभरमात्मानं परसंविच्चि-
दानन्दरूपमपि क्ष्माजलपवनवहीन्दुतपनयजमानाकाशैरंशर्मूर्तिभिस्त्वदपरः कस्त्रिजगत् ब्र-
ह्मादिस्तम्बपर्यन्तं जगत् कोऽसृजत् । न कोऽपीत्यर्थः ॥ (युग्मम्) ।
अनादौ संसारे विदधति रजोबाधितधियः
 
शुभं वा घोरं वा शबलमथ वा कृत्यमणवः ।
ततस्तद्भोगार्थ तरुणकरुणापूर्णहृदयो
 
विधत्से यत्तेषां तनुभुवननिर्माणमखिलम् ॥ १० ॥
तदेतत्संकल्पप्रकटितसमस्तत्रिजगतः
 
प्रभोर्लीलामात्रं भुवनमहनीयस्य भवतः ।
 
१. 'स्वकैः' स्व. २ 'युग्मम्' इति पुस्तकद्वयेऽपि नास्ति.
 
Digitized by Google