This page has been fully proofread once and needs a second look.

३५ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
४१९
 
काख्यं चक्षुस्तिरयति निमीलयति । तत्किमित्याह – येन यद्वशात्सहसा तत्क्षणमेव भवः

संसार एव श्वभ्रं तत्र पातः अदम्भ्रोऽनल्पः प्रतिपदं मुहुर्मुहुः प्रभवत्युत्पद्यते । देहिना-

मिति शेषः ॥
 

अथ कविस्तन्निवारणोपायमाह -
 
भवद्भक्ति

 
भवद्भक्तिं
तस्य व्युपशमसमर्थामथ दृशः
 

प्रसादं तन्वानां धनमहसमासाद्य सुधियः ।

प्रकाशात्मानं त्वामतिविमलया हंसमुदितं
 

दृशा साक्षात्कृत्य प्रतिजहति मोहान्धतमसम् ॥ ५ ॥

 
अथ पूर्वोक्तादनन्तरं तस्य प्रागुक्तस्य द्वन्द्वक्लेशादेर्विघ्नत्व्रातस्य विशेषेणापुनरागमरूपेणो-

पशमः प्रशमनं तत्र समर्थाम् । तथा दृशो ज्ञानस्य विलोचनस्य च प्रसादमनुग्रहं प्रसन्नतां

च तन्वानाम् । तथा घनं प्रचुरं महस्तेजो यस्याः सा तादृशीं भवद्भक्तिं भवतो विभोर्भ-

क्तिमासाद्य प्राप्य सुधियो विशदधियः प्रकाशात्मानं परप्रकाशवपुषं त्वां हंसं परमात्मानं

सदोदितमतिनिर्मलया घिधिया साक्षात्कृत्य मोहोऽज्ञानमेवान्धतमसं नितरां गाढं ध्वान्तं त
-
त्प्रतिजहति त्यजन्ति । अथ च हंसं सूर्यं साक्षात्कृत्य लोको गाढं तमोऽन्धकारं त्यजति

तथेत्यर्थः । 'खगयोगिभिदोर्हेहंसो निर्लोभनृपसूर्ययोः । परमात्मनि विष्णौ च' इति मङ्गःखः

 
अनित्ये नित्याशामशुचिनि शुचित्वव्यसनिता-

मनात्मन्यात्मास्थामथ महति दुःखे सुखमतिम् ।

चतुर्धा दुर्भेद्यामंम[^१]विरतमविद्यां परिणतां
 

हताशेषस्वाभामभिदधति मूलं भवतरोः ॥ ६ ॥

 
अनित्याशुच्यनात्मदुःखेषु विपरीतज्ञानमविद्या । इत्येतदेवोदाहरति कविः – हता अ
-
शेषा स्वस्यात्मन आभा प्रकाशो यया सा ताम् । तथा अविरतं निरन्तरं चतुर्धा चतुर्भिः

प्रकारैरनित्येत्यादिभिः परिणतां परीपाकं गतां भवतरोर्भवः संसार एव तरुर्महान्वृक्षस्तस्य

मूलकारणमभिदधति । एवमन्यन्त्रयम् ॥

 
नरास्तत्त्वालोके नियतमनया दूषितदृशो
 

विवेकप्रध्वंसाद्विदधति भवे कन्दुकगतिम् ।

उपासाभिर्लब्ध्वा भवभयभिदं निर्मलधियः
 

समाधिं साधिम्ना दधति न पुनर्जन्मविपदम् ॥ ७ ॥
 

 
नियतं निश्चितमनया पूर्वोक्तया चतुर्भेदया अविद्यया तत्त्वस्यालोको दर्शनं तद्विषयेयं दू-

षिता दृग्दृष्टिर्येषां ते तादृशा मलिनीकृतदृष्टयो विवेकस्य कार्याकार्यरूपस्य प्रकर्षेण ध्वंस-

 
[^
]. 'अनवधिं' क.
 
Digitized by Google