This page has not been fully proofread.

३५ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
४१९
 
काख्यं चक्षुस्तिरयति निमीलयति । तत्किमित्याह – येन यद्वशात्सहसा तत्क्षणमेव भवः
संसार एव श्वभ्रं तत्र पातः अदम्रोऽनल्पः प्रतिपदं मुहुर्मुहुः प्रभवत्युत्पद्यते । देहिना-
मिति शेषः ॥
 
अथ कविस्तन्निवारणोपायमाह -
 
भवद्भक्ति तस्य व्युपशमसमर्थामथ दृशः
 
प्रसादं तन्वानां धनमहसमासाद्य सुधियः ।
प्रकाशात्मानं त्वामतिविमलया हंसमुदितं
 
दृशा साक्षात्कृत्य प्रतिजहति मोहान्धतमसम् ॥ ५ ॥
अथ पूर्वोक्तादनन्तरं तस्य प्रागुक्तस्य द्वन्द्वक्लेशादेर्विघ्नत्रातस्य विशेषेणापुनरागमरूपेणो-
पशमः प्रशमनं तत्र समर्थाम् । तथा दृशो ज्ञानस्य विलोचनस्य च प्रसादमनुग्रहं प्रसन्नतां
च तन्वानाम् । तथा घनं प्रचुरं महस्तेजो यस्याः सा तादृशीं भवद्भक्तिं भवतो विभोर्भ-
क्तिमासाद्य प्राप्य सुधियो विशदधियः प्रकाशात्मानं परप्रकाशवपुषं त्वां हंसं परमात्मानं
सदोदितमतिनिर्मलया घिया साक्षात्कृत्य मोहोऽज्ञानमेवान्धतमसं नितरां गाढं ध्वान्तं त
त्प्रतिजहति त्यजन्ति । अथ च हंसं सूर्य साक्षात्कृत्य लोको गाढं तमोऽन्धकारं त्यजति
तथेत्यर्थः । 'खगयोगिभिदोर्हेसो निर्लोभनृपसूर्ययोः । परमात्मनि विष्णौ च' इति मङ्गः ॥
अनित्ये नित्याशामशुचिनि शुचित्वव्यसनिता-
मनात्मन्यात्मास्थामथ महति दुःखे सुखमतिम् ।
चतुर्धा दुर्भेद्यामंविरतमविद्यां परिणतां
 
हताशेषस्वाभामभिदधति मूलं भवतरोः ॥ ६ ॥
अनित्याशुच्यनात्मदुःखेषु विपरीतज्ञानमविद्या । इत्येतदेवोदाहरति कविः – हता अ
शेषा स्वस्यात्मन आभा प्रकाशो यया सा ताम् । तथा अविरतं निरन्तरं चतुर्धा चतुर्भिः
प्रकारैरनित्येत्यादिभिः परिणतां परीपाकं गतां भवतरोर्भवः संसार एव तरुर्महान्वृक्षस्तस्य
मूलकारणमभिदधति । एवमन्यत्रयम् ॥
नरास्तत्त्वालोके नियतमनया दूषितदृशो
 
विवेकप्रध्वंसाद्विदधति भवे कन्दुकगतिम् ।
उपासाभिलब्ध्वा भवभयभिदं निर्मलधियः
 
समाधिं साधिम्ना दधति न पुनर्जन्मविपदम् ॥ ७ ॥
 
नियतं निश्चितमनया पूर्वोक्तया चतुर्भेदया अविद्यया तत्त्वस्यालोको दर्शनं तद्विषये दू-
षिता दृग्दृष्टिर्येषां ते तादृशा मलिनीकृतदृष्टयो विवेकस्य कार्याकार्यरूपस्य प्रकर्षेण ध्वंस-
१. 'अनवधिं' क.
 
Digitized by Google