This page has been fully proofread once and needs a second look.

४१८
 
काव्यमाला ।
 
श्रीशंभुभक्तिविषयमनोरथैः कविः स्वात्मानं विनोदयति-

 
उदारैर्मन्दारै रचितशिखरं चन्द्रशिखरं

समभ्यर्च्य प्रेम्णा विपुलपुलकालंकृततनुः ।

कदा गन्धाबन्धप्रमदमुदितोद्दाममधुप-

स्फुरद्गुञ्जागर्मैभैर्विभुमभिभजेयं नुतिपदैः ॥ २ ॥
 

 
गन्धस्य
 
सुरसलक्ष्यव्यङ्ग्यार्थसौरभस्य आ समन्ताद्न्धस्तेन प्रमदः परमानन्दस्तेन मु
-
दिता ये मधुपाः शिवभक्तिरसरसायनपानसक्तास्तेषां स्फुरन्ती यासौ गुञ्जा गीतध्वनिः सा
-
गर्भे येषां तानि तादृशैर्नुतिपदैः स्तुतिपदैरहं कदा विभुं परमेशमभिभजेयम् । अहं किं-

भूतः । विपुला ये पुलका रोमाञ्चास्तैरलंकृता तनुर्यस्य । किं कृत्वा । प्रेम्णातिप्रियत्वेन

चन्द्रशिखरं चन्द्रमौलिं सम्यक् समग्रपूजोपचारैरभ्यर्च्य । किंभूतं शंभुम् । उदारैर्बहुयोजन -

सौगन्ध्यविधानान्महोत्कर्षवद्भिर्मन्दारैर्मन्दाराख्यकल्पवृक्षकुसुमै रचितशिखरं कृतमुकुटम् ॥

 
इतो द्वन्द्वक्लेशा विषयमृगतृष्णास्थितिरितो

जरामृत्युव्याधिप्रतिभयमितः सर्वसुलभम् ।

महामोहैर्घोरैरुपहतमितो बोधलसितं
 

कथं कुर्यादार्यः कृतमतिरपि स्वात्मनि हितम् ॥ ३ ॥
 

 
आर्यः साधुजनः कृतमतिर्बुद्धिमानपि इत्थं बहुविघ्नाकुलमनस्त्वात् स्वात्मनि हितं भ
-
वाब्ध्युत्तरणोपायं कथं कुर्यात् । इत्थं कथमित्याह — इत इति । द्वन्द्वानां शीतातपादीना-

मूर्मीणां क्लेशा इतो भवन्ति । 'शीतातपौ शरीरस्य लोभमोहौ तु चेतसः । प्राणस्य क्षुत्पि

पासे द्वे द्वन्द्वदुःखमुदाहृतम् ॥" इति । तथा विषयाः शब्दादय एत्र मृगतृष्णा मरुमरी-

चिका तस्याः स्थितिरितो भवति ।...........
 
…........ ।
 

तथा महाघोरैरत्युत्कटैर्महामोहैर्मायाविलसितैर्बोधलसितं ज्ञानोल्लास इत उपहतं नि-

तरां बाघितम् ॥
 

 
पूर्वोक्तमेवार्थं समर् समर्थयति –

 
अशेषक्लेशौघग्लपनपरिपन्थी प्रकटय-

न्नयं विघ्नत्व्रातः प्रबलविपदापादनविधिम् ।

विवेकाख्यं चक्षुस्तिरयति सतां येन सहसा
 

भवश्वभ्रे पातः प्रतिपदमदभ्रः प्रभवति ॥ ४ ॥
 

 
अशेषा ये क्लेशाः पश्ञ्चाविद्यादयस्तेषामोघः समूहस्तेन यद् ग्लपनं प्ग्रसनं (हि विषयं ?) तेन

परिपन्थी शत्रुभूतोऽयं पूर्वोक्तो विघ्ननाव्रातः 'इतो द्वन्द्वक्लेशाः' इत्यादि प्रबला या विपद्भवा-

रघट्टे पुनः पुनरावृत्तिरूपा तस्या आपादनविधिं प्रकटीकुर्वन् सतां कृतधियामपि तद्विवे-
Digitized by Google