This page has been fully proofread once and needs a second look.

३५ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
४१७
 
नमन्तः प्रणमन्तोऽमरवरा ब्रह्माद्या यस्य सः । तथा संकरं पापानां संकटं हन्तीति

तादृशः । शंकरो निःश्रेयसप्रदः । विभुः कर्ता वो गुयुष्मान् कर्मभूतानत्ग्र्यवर्णस्तवं अत्ग्र्य-

वर्णेन द्विजन्मना जगद्धरकविना कृतः स्तवोऽभ्ग्र्यवर्णस्तवः । मध्यमपदलोपी समासः । तं

कर्मभूतमवगमयतु बोधयतु । करुणया स्वयं शृण्वन्युष्मानपि बोधयत्वित्यर्थः । किंभूतं

स्तवम् । द्रष्टव्यम् । सहृदयैः कौतुकेन परीक्ष्यमित्यर्थः । तथा सम्यक् समीचीनो योऽर्थ-

स्तस्य प्रवचनेन परमम् । सहजोक्तिपरायणमित्यर्थः । तथा शर्मदं कल्याणप्रदम् । पद्यैर्वृत्तै-

र्बद्धम् । प्रष्ठा उत्कृष्टा प्रज्ञा येषां ते प्रष्ठप्रज्ञाः सुमतयस्तैः प्रशस्यं स्तुत्यम् । तथा भग्नो घ-

र्मस्तापत्रयजः संतापो येन तत्तादृशम् । प्रमदमयपयः परमानन्दमयं पयो दुग्धं वर्षन्तम् ।

तथा सत्यश्वासौ संकल्पस्तेन श्रव्यम् । तथा भव्यं श्रेष्ठम् । वसव्यं वसुभ्यो धनेभ्यो

हितम् । धन्यमित्यर्थः ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
लौ
अभ्
ग्र्यवर्णस्तोत्रं चतुस्त्रिंशम् ।
 

 
पञ्चत्रिंशं स्तोत्रम् ।
 

 
अथातो ग्रन्थकृदीश्वरप्रशंसास्तोत्रं पश्ञ्चत्रिंशमारभमाण आह-
-
 

 
अनाथानां नाथो गतिरगतिकानां व्यसनिनां
 

विनेता भीतानां शरणमधृतीनां भरवशः ।

सुहृद्न्धु: स्वामी शरणमुपकारी वरगुरुः
 
f
 

पिता माता भ्राता त्रिजगति जयत्यन्तकरिपुः १ ॥

 
अन्तकस्य यमस्य रिपुः श्रीशंभुर्जयति सर्वोत्कृष्टो भवति । नाथेत्यादि स्वभेदप्राधान्ये

आरोपे रूपकं निरूपयति — अनाथानामित्यादि । शंभुः कः । 'नाथ याचने' धातुः । ना-

न्ति याचन्ते एनं पालनार्थं नाथः । त्रिजगति त्रिभुवने अनाथानां जनानां नाथः । तथा

अगतिकानां निरुपायाणां महानुपायः । तथा व्यसनिनां स्त्रीद्यूतमृगयादिव्यसनयुक्तानां

विनेता विनयप्रदः । तथा अभृध्रृतीनां गतधैर्याणां भरवशो धैर्यप्रदः । भरवश इति रूढपदम् ।

तथा निजावस्थां निवेदयतां जनानां सुहृत्सखा आश्वासकारी तथा बन्धुः संकटेऽप्यप-

रित्यागी । तथा स्वामी सर्वदा निजसेवकानां वार्ताग्राही । तथा शरणं सदा प्रतिपालकः ।

तथा वरगुरुः कैवल्यप्राप्तिकारणनिजशासनोपदेशकः । तथा पिता पातीति पिता अतिसं-

कटेऽपि पालयिता । तथा माता मात्यस्या उदरे इति माता अतिस्नेहपात्रं शिशुं पालयित्री ।

तथा भ्राता सहोदरः सुखदुःखसंविभागी एवंभूतः श्रीशंभुस्त्रिजगति त्रैलोक्ये जयति सर्वो-

त्कृष्टो भवति ॥
 
५३
 
Digitized by Google