This page has not been fully proofread.

३५ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
४१७
 
नमन्तः प्रणमन्तोऽमरवरा ब्रह्माद्या यस्य सः । तथा संकरं पापानां संकटं हन्तीति
तादृशः । शंकरो निःश्रेयसप्रदः । विभुः कर्ता वो गुष्मान् कर्मभूतानत्र्यवर्णस्तवं अत्र्य-
वर्णेन द्विजन्मना जगद्धरकविना कृतः स्तवोऽभ्यवर्णस्तवः । मध्यमपदलोपी समासः । तं
कर्मभूतमवगमयतु बोधयतु । करुणया स्वयं शृण्वन्युष्मानपि बोधयत्वित्यर्थः । किंभूतं
स्तवम् । द्रष्टव्यम् । सहृदयैः कौतुकेन परीक्ष्यमित्यर्थः । तथा सम्यक् समीचीनो योऽर्थ-
स्तस्य प्रवचनेन परमम् । सहजोक्तिपरायणमित्यर्थः । तथा शर्मदं कल्याणप्रदम् । पद्यैर्वृत्तै-
र्बद्धम् । प्रष्ठा उत्कृष्टा प्रज्ञा येषां ते प्रष्ठप्रज्ञाः सुमतयस्तैः प्रशस्यं स्तुत्यम् । तथा भग्नो घ-
र्मस्तापत्रयजः संतापो येन तत्तादृशम् । प्रमदमयपयः परमानन्दमयं पयो दुग्धं वर्षन्तम् ।
तथा सत्यश्वासौ संकल्पस्तेन श्रव्यम् । तथा भव्यं श्रेष्ठम् । वसव्यं वसुभ्यो धनेभ्यो
हितम् । धन्यमित्यर्थः ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाअलौ
अभ्यवर्णस्तोत्रं चतुत्रिंशम् ।
 
पञ्चत्रिंशं स्तोत्रम् ।
 
अथातो ग्रन्थकृदीश्वरप्रशंसास्तोत्रं पश्चत्रिंशमारभमाण आह-
-
 
अनाथानां नाथो गतिरगतिकानां व्यसनिनां
 
विनेता भीतानां शरणमधृतीनां भरवशः ।
सुहृद्वन्धु: स्वामी शरणमुपकारी वरगुरुः
 
f
 
पिता माता भ्राता त्रिजगति जयत्यन्तकरिपुः १ ॥
अन्तकस्य यमस्य रिपुः श्रीशंभुर्जयति सर्वोत्कृष्टो भवति । नाथेत्यादि स्वभेदप्राधान्ये
आरोपे रूपकं निरूपयति — अनाथानामित्यादि । शंभुः कः । 'नाथ याचने' धातुः । ना-
यन्ति याचन्ते एनं पालनार्थ नाथः । त्रिजगति त्रिभुवने अनाथानां जनानां नाथः । तथा
अगतिकानां निरुपायाणां महानुपायः । तथा व्यसनिनां स्त्रीद्यूतमृगयादिव्यसनयुक्तानां
विनेता विनयप्रदः । तथा अभृतीनां गतधैर्याणां भरवशो धैर्यप्रदः । भरवश इति रूढपदम् ।
तथा निजावस्थां निवेदयतां जनानां सुहृत्सखा आश्वासकारी तथा बन्धुः संकटेऽप्यप-
रित्यागी । तथा स्वामी सर्वदा निजसेवकानां वार्ताग्राही । तथा शरणं सदा प्रतिपालकः ।
तथा वरगुरुः कैवल्यप्राप्तिकारणनिजशासनोपदेशकः । तथा पिता पातीति पिता अतिसं-
कटेऽपि पालयिता । तथा माता मात्यस्या उदरे इति माता अतिस्नेहपात्रं शिशुं पालयित्री ।
तथा भ्राता सहोदरः सुखदुःखसंविभागी एवंभूतः श्रीशंभुस्त्रिजगति त्रैलोक्ये जयति सर्वो-
त्कृष्टो भवति ॥
 
५३
 
Digitized by Google