This page has not been fully proofread.

४१६
 
काव्यमाला ।
 
योनयो यस्मिन्स तम् । पुनः किंभूतं सत्यम् । सह कनककटकेन काञ्चनमयमध्यभागेन
वर्तते यः स तम् । 'कटकोऽस्त्री नितम्बोऽद्धेः' इत्यमरः । नितम्बो मध्यभागः । पुनः
कीदृशम् । कल्पवृक्षाः पञ्च मन्दाराद्या अन्तरङ्गा यस्य तम् । पुनः किंकुर्वन् विभुः । भद्रं
रम्यं संक्रन्दनस्येन्द्रस्य प्रहसनसदनं लीलागृहं स्वर्गरङ्गं स्वर्गे रङ्गभूमिरूपं नन्दनं स्वर्गोद्यानं
 
गच्छन् ॥
 
पद्मस्थं पद्महस्तं गजवरवदनं नन्दनं स्कन्दसंज्ञं
 
पर्जन्यं हंसमनं दशशतनयनं हव्यमक्षं सदण्डम् ।
रक्षः प्रख्यं जलस्थप्रथमथ पवनं मर्त्यपत्रं मवघ्नं
 
संपश्यत्यत्यजन्तं चरणतलमलं यः स कर्षत्वघं वः ॥ ११ ॥
अलमत्यर्थे चरणतलं पादतलमत्यजन्तमिति सर्वत्र संबन्धः । यो विभुः परमेश: अल-
मत्यर्थे चरणतलमत्यजन्तं पद्मस्थं ब्रह्माणं संपश्यति सम्यक् समदृष्टया च पश्यति । अत्यर्थे
चरणतलमत्यजत एतान्ब्रह्मादीन् यो विभुः समदृष्टया पश्यति स स्वामी वो युष्माकमश-
मकल्याणं भवोत्थं कर्षतु दूरीकरोतु । एतान् कान् । पद्मस्थं ब्रह्माणम् । पद्महस्तं विष्णुम् ।
गजवरवदनं गजास्यं गणेशम् । स्कन्दसंज्ञं नन्दनं तनयं कुमारम् । पर्जन्यं मेघम् । हंसं
सूर्यम् । अब्जं चन्द्रमसम् । दशशतनयनं सहस्राक्षमिन्द्रम् । हव्यभक्षमग्निम् । सदण्डं
दण्डधरं यमम् । रक्षःप्रख्यं निरृतिम् । जलस्था प्रथा प्रसिद्धिर्यस्य स तं वरुणम् । तथा
पवनं वायुम् । मर्त्यपत्रं नरवाहनं कुबेरम् । मखघ्नं मृगरूपयज्ञध्वंसकमीशानं च । एतान् ॥
अव्यक्तं यः समग्रं जगदगनगरं व्यञ्जयत्यजज: स-
न्यः संरक्षत्यनन्तः स्मरयमदमनः संहरत्यक्रमं यः ।
स त्र्यक्षस्तन्त्रमन्त्र प्रणयनसफलग्रन्थकर्मण्यखर्व-
ज्ञत्वः सद्गम्यवर्त्मप्रकटनपरम स्पर्शयत्वद्वयं वः ॥ १२ ॥
यः परमेशो रजोगुणस्योद्रेकेऽब्जजो ब्रह्मा सन् अव्यक्तमप्रकटमपि समप्रं समस्तमगा:
पर्वता एव नगराणि यत्र तदगनगरं जगद्व्यञ्जयति प्रकटीकरोति । सृजतीत्यर्थः । तथा
सत्त्वोद्रेकेणानन्तो विष्णुरूपः सन् समस्तं जगत्संरक्षति । तथा तमोगुणे प्रबले रुद्ररूपेण
यो जगत् विश्वमक्रमं युगपदेव संहरति । यः किंरूपः । स्मरयमदमनः कालकामदहनः ।
स त्र्यक्षस्त्रिलोचनः श्रीशंभुर्वो युष्माकमद्वयं स्पर्शयतु ददातु । भगवानेकरूपः सर्वत्र स्थित
इत्येव युष्मानवगमयत्वित्यर्थः ॥
 
द्रष्टव्यं सम्यगर्थप्रवचनपरमं शर्मदं पद्यबद्धं
 
प्रष्ठप्रज्ञप्रशस्यं नमदमरवरः शंकरः संकरघ्नः ।
वर्षन्तं भग्नघर्म प्रमदमयपयः सत्यसंकल्पजल्प-
श्रव्यं भव्यं वसव्यं नवमवगमयत्वग्र्यवर्णस्तवं वः ॥ १३ ॥
 
Digitized by Google