This page has been fully proofread once and needs a second look.

३४ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
४१५
 
सितकरस्येन्दोः शरणं निवासभूतम् । ध्वस्तो दूरीकृतः कम्पः संसारजो भक्तजनस्य

येनं तत् । तथा संपदः शोभायाः संपर्केण रम्या प्रभा यस्य तत् तादृशम् । अभयं शर-

णागतानां भयाभावं करोतीति तादृशस्तस्य । अभयाख्यमायुधं करे यस्य स तादृशस्य वा ।

ऋषभस्यन्दनस्य वृषभवाहनस्य श्रीशंभोर्मस्तकं शिरो वो युष्माकमशमकल्याणं भवारघट्टे

पुनरावृत्तिरूपं व्यस्यतु विशेषेण दूरीकरोतु । तस्य श्रीशंभोः कस्य । सत्यमित्यादि । स्पष्टं

प्रकटं कष्टं भवमरुभ्रमणजं तस्य प्रशमने मनो यस्य तादृशस्य । यत्पदस्पर्शबद्धश्रद्धस्य

यस्य विभोः पदारविन्दस्पर्शे बद्धश्रद्धस्य कस्य नं महदघपटलं पातकसमूहः सत्यं नि-

श्चितमेवावश्यं नश्यति । अघपटलं किंभूतम् । व्यक्तकल्कम् । व्यक्तः प्रकटः कल्को-

ऽपराधो यस्मात्तत् ॥
 

 
अत्यन्तस्वच्छमन्तःकरणमशरणप्रत्तरक्षं समक्षं
 

व्यञ्जन्भञ्जन्नजस्रं नयनतवदनस्तम्भसंरम्भदम्भम् ।

सर्वज्ञः सत्त्वसंघक्लमकरणचणं जन्म कर्मप्रबन्धं
मअ

मथ्न
न्नत्यर्थमर्थं क्षतसकलमलं वर्धयत्वव्ययं वः ॥ ९ ॥
 

 
सर्वज्ञः परमेश्वरः क्षता दूरीकृताः सकला आणवमायीयकार्मरूपास्त्रयो मला येन स ता-

दृशस्तम् । तथा अव्ययं न विद्यमानो व्ययो नाशो यस्य स तादृशम् । अर्थं परमार्थेथं वो

युष्माकं वर्धयतु । अशरणानामप्रतिपालकानां जनानां प्रत्ता दत्ता रक्षा येन तत्तादृशम् ।

अत्यन्तं नितरां स्वच्छं निर्मलमन्तःकरणं मनः समक्षं प्रत्यक्षमेव व्यञ्जन् प्रकटीकुर्वन् ।

तथा अजस्रं सदैव नयेन विनयेन नता भक्तिप्रह्लावास्तेषां वदने मुखे यः स्तम्भो मौनमुद्रा

तस्य संरम्भः स एव दम्भस्तं भञ्जन् । भञ्जो आमर्दने धातुः । तथा सत्त्वानां प्राणिनां

संघस्य यः क्लमस्तस्य करणं तेन चणं प्रख्यातम् । तेन वित्तश्च बुञ्जु पूचणपौ' । भूतक्लेशदायि

कर्मप्रबन्धं कर्मभिः शुभाशुभैः प्रकर्षेण बन्धो यस्य तत् तादृशं जन्म अत्यर्थे मथं मथ्नन् निः -

शेषीकुर्वन् । भविनामिति शेषः ॥
 

 
गल्वर्कप्रस्थपस्त्यं धरमथमलयं मन्दरं सह्यमन्तं -

र्नन्दद्न्धर्वयक्षं सकनककटकं कल्पतर्वन्तरङ्गम् ।

भद्रं संक्रन्दनस्य प्रहसनसदनं नन्दनं स्वर्गरङ्गं
 

गच्छन्स्वच्छन्दचर्यः परबलदलनस्तर्पयत्वन्वहं वः ॥ १० ॥

 
परेषामन्धकासुरादीनां दैत्यानां बलं मथ्नातीति तादृशः । स्वच्छन्दा स्वतन्त्रा चर्या यस्य

तादृशो विभुरन्वहं प्रतिदिनं वस्तर्पयतु । परमामृतरसेनेत्यर्थ: । स्वच्छन्दचर्यामेव विभो-

राह –गल्वर्केत्यादि । गल्वर्कमयाः स्फटिकमयाः प्रस्था: सानवस्तत्र पस्त्यं भवनं यस्य

तादृशम् । घरं गिरिं कैलासं गच्छन् । 'निशान्तपस्त्यसदनं' इत्यमरः । तथा मलयं मल-

याख्यं गिरिं मन्दरं सत्ह्यं च गच्छन् । सत्ह्यं किंभूतम् । अन्तर्नन्दन्तो गन्धर्वाः यक्षा देव-
Digitized by Google